________________
RSON
श्रीआचाराङ्गवृत्तिः
(शी०) ॥२७९॥
यप्रेयसीमार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद | विमो०८ दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं, तच्चानाय,
उद्देशका४ तत्कथं तस्याभ्युपगमः, तथा चागमः-"इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरतं संसारकंतारं भुजो भुजो परियट्टईत्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानां, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपि तु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतदर्शयितुमाह-दीर्घकालं संय|मप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगा
प्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण || यावन्मात्रं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवाप्नोतीति दर्शयति-'सोऽपि' वेहानसादेविधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए'त्ति विशेषेणान्तिय॑न्तिः। |-अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तद्वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्घराह–इत्येतत्' पूर्वोक्तं वेहानसादिमरणं विगतमोहानामायतनम्-आश्रयः कर्त्तव्यतया तथा हितम् अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा 'क्षम' युक्तं ॥२७९॥
१ इत्येतेन बालमरणेन म्रियमाणो जीवोऽनन्तै रयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदनं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्तते. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org