Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः२ | / / 725 // श्रुतस्कन्धः 2 चूलिका-२ सप्तसप्तिका, चतुर्था सप्पैकका शब्दः , सूत्रम् 393 शब्दश्रवणार्थं गमननिषेधः जएजासि त्तिबेमि॥७॥सूत्रम् 393 / / सद्दसत्तिक्कओ॥२-२-४-११॥ स भिक्षुः आख्यायिकास्थानानि कथानकस्थानानि, तथा मानोन्मानस्थानानि मान-प्रस्थकादिः उन्मानं नाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति // किञ्चकलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति // अपि च-स भिक्षुः क्षुल्लिका दारिकां डिक्करिकां मण्डितालङ्कता बहुपरिवृतां णिवुज्झमाणिं ति अश्वादिना नीयमानाम्, तथैकं पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थं / तत्र न गच्छेदिति ॥स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानि-पापोपादानस्थानानि वर्त्तन्ते, तद्यथा- बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति // किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयात्, तद्यथा- स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रि या यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति॥इदानीं सर्वोपसंहारार्थमाह-स: भिक्षुः ऐहिकामुष्मिकापायभीरुः नो नैव ऐहलोकिकैः मनुष्यादिकृतैः पारलोकिकै: पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धैर्वा न सङ्गं कुर्यात् न रागं गच्छेत् न गाय प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत्, एतत्तस्य भिक्षोः सामग्र्यम्, शेषं पूर्ववत्, इह च सर्वत्रायंदोष:- अजितेन्द्रियत्वं स्वाध्यायादिहानिरागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति // 393 // चतुर्थसप्तककानन्तरमादित एकादशं समाप्तम् / / 2-2-4-11 // // 725 //
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240