Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 232
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 755 // मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाद्धयं विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपञ्चभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गाद्ध्यन कार्यमिति, शेषं सुगमं यावदध्ययनं समाप्तमिति // 402 // भावनाख्यं पञ्चदशमध्ययनं // तृतीया चूडा समाप्तेति // 2-315 // श्रुतस्कन्धः 2 चूलिका-४ विमुक्तिः, नियुक्तिः 345-346 अनित्याद्यधिकाराः ॥अथ अथ विमुक्त्याख्या चतुर्थी चलिका॥ सूत्रम् (अनुष्टुप) 136 अनित्याद्यधिकारा: उक्तं तृतीयचूडात्मकं भावनाख्यमध्ययनम्, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्ध:इहानन्तरं महाव्रतभावनाः प्रतिपादितास्तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाह नि०- अणिच्चे पव्वए रुप्पे भुयगस्स तया महासमुद्दे य / एए खलु अहिगारा अज्झयणंमी विमुत्तीए॥३४५॥ * अस्याध्ययनस्यानित्यत्वाधिकारस्तथा पर्वताधिकारःपुना रूप्याधिकारस्तथा भुजगत्वगधिकारः, एवं समुद्राधिकारश्च, इत्येते पञ्चााधिकारास्तांश्च यथायोगं सूत्र एव भणिष्याम इति // नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेप उत्तराध्ययनान्त:पातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह नि०- जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं / देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा // 346 // य एव मोक्ष: सैव विमुक्ति: अस्याश्च मोक्षवन्निक्षेप इत्यर्थः, प्रकृतं- अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्व // 755 //

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240