Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 233
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:२ // 756 // भेदावधा, तत्र देशत: साधूनां भवस्थकेवलिपर्यन्तानाम्, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति // सूत्रानुगमे / श्रुतस्कन्धः२ सूत्रमुच्चारयितव्यम्, तच्चेदं चूलिका-४ विमुक्तिः, अणिच्चमावासमुविंति जंतुणो, पलोयए सुच्चमिणं अणुत्तरं / विउसिरे विन्नु अगारबंधणं, अभीरू आरंभपरिग्गहं चए सूत्रम् ॥सूगा० 136 // (अनुष्टुप्) 137-138 आवसन्त्यस्मिन्नित्यावासो- मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुपसामीप्येन यान्ति- गच्छन्ति जन्तवः-प्राणिन इति, अनित्याचतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा प्रलोकयेत् / द्यधिकाराः पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान् व्युत्सृजेत् / परित्यजेत् अगारबन्धनं गृहपाशं पुत्रकलनधनधान्यादिरूपम्, किम्भूतः सन्? इत्याह- अभीरुः सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च आरम्भं सावधमनुष्ठानं परिग्रहं च सबाह्याभ्यन्तरं त्यजेदिति // 136 ॥साम्प्रतं पर्वताधिकारे, तहागयं भिक्खुमणंतसंजयं, अणेलिसं विन्नुचरंतमेसणं। तुदंतिवायाहि अभिद्दवं नरा, सरेहिं संगामगयंवकुंजरं // सूगा० 137 // तथाभूतं साधु-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहम्, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यग्यत: संयतस्तं | अनीदृशं अनन्यसदृशं विद्वासंजिनागमगृहीतसारं एषणांचरन्तं परिशुद्धाहारादिना वर्तमानम्, तमित्थंभूतं भिक्षुनरा: मिथ्यादृष्टयः पापोपहतात्मानः वाग्भिः असभ्यालापैः तुदन्तिव्यथन्ते, पीडामुत्पादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्तिच, कथमिति दृष्टान्तमाह- शरैः सङ्ग्रामगतं कुञ्जरमिव // 137 // अपिच एषणायां चरन्तं (मु०)। // 756 //

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240