Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 235
________________ तथा श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 758 // सूत्रम् मुनेर्विगततृष्णस्य ध्यायतो धर्मध्यानं समाहितस्य उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति // 140 // श्रुतस्कन्धः२ चूलिका-४ विमुक्तिः, दिसोदिसंऽणंतजिणेण ताइणा, महव्वया खेमपया पवेइया / महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा। // सू०गा० 141 // (अनुष्टुप्) 142-143 दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षुक्षेमपदानि रक्षणस्थानानि प्रवेदितानि प्ररूपितानि, अनन्तश्चासौज्ञानात्मतया / अनित्यानित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि?- महागुरूणि कापुरुषैर्दुर्वहत्वात् निःस्वकराणि स्वं- द्यधिकाराः कर्मानादिसम्बन्धात्तदपनयनसमर्थानि नि:स्वकराणि उदीरितानि आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोर्ध्वाधस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्रिदिशंप्रकाशकानीति ॥१४१॥मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽह सिएहिं भिक्खू असिए परिव्वए, असजमित्थीसु चइज्ज पूयणं / अणिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए // सूगा०१४२॥ सिता:- बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तै: असितः अबद्धः- तैः सार्द्ध सङ्गमकुर्वन् भिक्षुः परिव्रजेत् संयमानुष्ठायी भवेत्, तथा स्त्रीषु असजन् सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत्, 758 // तथा अनिश्रित: असंबद्धः इहलोके अस्मिन् जन्मनि तथा परलोके स्वर्गादाविति, एवंभूतश्च कामगुणैः मनोज्ञशब्दादिभिः न मीयते न तोल्यते न स्वीक्रियत इतियावत् पण्डितः कटुविपाककामगुणदर्शीति // 142 //

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240