Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 231
________________ श्रीआचाराङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 754 // प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यम्, तदर्शयति- यन्मनः पापकं सावधं सक्रिय अण्हयकरं ति | श्रुतस्कन्धः२ कर्माश्रवकारि, तथा छेदनभेदनकर अधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न चूलिका-३ भावना, विधेयमिति, अथापरा तृतीया भावना दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी सूत्रम् भावना- आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-8 आलोकितं प्रत्युपेक्षितमशनादि भोक्तव्यम्, तदकरणे दोषसम्भवादिति इत्येवं पञ्चभिर्भावानाभिः प्रथमं व्रतं स्पर्शितं पालितं 131-135 सूत्रम् 402 तीर्ण कीर्त्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति / द्वितीयव्रतभावनामाह तत्र प्रथमेयं- अनुविचिन्त्यभाषिणा भवितव्यम्, श्रीवीरवर्णनम् तदकरणे दोषसम्भवात्, द्वितीयभावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयंत्याज्यम्, पूर्वोक्तादेव हेतोरिति, पश्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति। तृतीयव्रते प्रथमभावनैषा- अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा- अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु अभीक्ष्णं अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यांत्वनुविचिन्त्य मितमवग्रह साधर्मिकसम्बन्धिनं गृह्णीयात्, इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति / चतुर्थव्रते प्रथमेयं-स्त्रीणां सम्बन्धिनी कथांन। कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत्, तृतीयायां तु पूर्वक्रीडितादिन स्मरेत्, चतुर्थ्यां नातिमात्रभोजन-2 पानासेवी स्यात्, पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति / पञ्चमव्रतप्रथमभावना पुनरेषा श्रोत्रतः श्रोत्रमाश्रित्य 0पञ्चमव्रतभावना पुनरेषा-श्रोत्रमाश्रित्य (मु०)।

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240