Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 212
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 735 // भावना ॥अथ भावनाख्या तृतीया चूलिका॥ श्रुतस्कन्धः२ उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्ध:- इहादित:प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽ-8 चूलिका-३ भावना, भिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां / नियुक्तिः परिपालनार्थं भावना: प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति तत्रोपक्रमान्तर्गतोऽ- 330-331 यमर्थाधिकारः, तद्यथा-अप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, निक्षेपा: तस्याश्च नामादिचतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थं नियुक्तिकृदाह नि०-दव्वं गंधंगतिलाइएसुसीउण्हविसहणाईसु / भावंमि होइ दुविहा पसत्थ तह अप्पसत्था य॥३३०॥ तत्र द्रव्य मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमादिभिर्द्रव्यैस्तिलादिषु द्रव्येषु या वासना सा द्रव्यभावनेति, तथा शीतेन भावित: शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाद्व्यायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावेतु-भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति // 330 // तत्राप्रशस्तां भावभावनामधिकृत्याह नि०- पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव / कोहे माणे माया लोभे य हवंति अपसत्था / / 331 // प्राणिवधाद्यकार्येषु प्रथमं प्रवर्त्तमानः साशङ्कः प्रवर्त्तते पश्चात्पौन:पुन्यकरणतया निःशङ्कः प्रवर्त्तते, तदुक्तं करोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते / तृतीयं निःशङ्कोः विगतघृणमन्यत्प्रकुरुते, तत: पापाभ्यासात्सततमशुभेषु प्ररमते // 1 // // 331 // प्रशस्तभावनामाह // 735 //

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240