Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 213
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ ||736 // नि०-दसणनाणचरित्ते तववेरग्गे य होइ उ पसत्था / जा य जहा ता य तहा लक्खण वुच्छं सलक्खणओ॥३३२॥ श्रुतस्कन्धः२ दर्शनज्ञानचारित्रतपोवैराग्यादिषुया यथा च प्रशस्तभावना भवति तांप्रत्येकंलक्षणतो वक्ष्य इति॥३३२॥दर्शनभावनार्थमाह- चूलिका-३ भावना, नि०- तित्थगराण भगवओपवयणपावयणिअइसइट्ठीणं / अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा॥ 333 // नियुक्तिः तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनां- आचार्यादीनां युगप्रधानानाम्, तथाऽतिश- 332-336 यिनामृद्धिमतां- केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्पोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा / भावना प्रकार: गुणोत्कीर्तनं संपूजनंगन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतंभाव्यमानया दर्शनशुद्धिर्भवतीति // 333 / / किञ्च नि०- जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे। दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥३३४॥ नि०- अट्ठावयमुर्जिते गयग्गपयए य धम्मचक्के य। पासरहावत्तनगं चमरुप्पायं च वंदामि // 335 // तीर्थकृतांजन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषुमन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु / च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुजयन्तगिरौ गजाग्रपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रिया: कुर्वतो दर्शनशुद्धिर्भवतीति // 334-335 / / किञ्च___ नि०- गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं / इय एगंतमुवगया गुणपच्चइया इमे अत्था॥३३६॥ // 736 //

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240