Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 205
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः 2 // 728 // | श्रुतस्कन्धः२ चूलिका-२ सप्तसप्तिका, षष्ठी सप्तकका परक्रिया, नियुक्ति: 328 परनिक्षेपाः ॥षष्ठी सप्तकका परक्रियाख्या। साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य षड्डिधं निक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाह नि०- छक्कं परइक्किक्कं त 1 दन्न 2 माएस 3 कम 4 बहु५ पहाणे 6 / षट्कं पर इति परशब्दविषये नामादिः षड़िधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षधिं भवतीति दर्शयति, तद्यथा- तत्परं 1 अन्यपरं 2 आदेशपरं 3 क्रमपरं 4 बहुपरं 5 प्रधानपर 6 मिति, तत्र द्रव्यपरंतावत्तद्रूपतयैव वर्तमानं-परमन्यत्तत्पर यथा परमाणो: पर: परमाणुः 1, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा एकाणुकाद्व्य णुकत्र्यणुकादि, एवं व्यणुकादेकाणुकत्र्यणुकादि 2, आदेशपरं आदिश्यते-आज्ञाप्यत इत्यादेश:-य: कस्यांचित्क्रियायां नियोज्यते कर्मकरादिः स चासौ परश्चादेशपर इति 3, क्रमपरंतु द्रव्यादि चतुर्द्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं व्यणुकात्त्र्यणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढा द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिका द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्द्विगुणकृष्णमित्यादि 4, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्बहु तद्बहुपरं तद्यथा जीवा पुग्गल समया दव पएसा य पज्जवा चेव / थोवाणताणता विसेसअहिया दुवेऽणता // 1 // तत्र जीवाः स्तोकास्तेभ्यः पुद्गला अनन्तगुणा इत्यादि 5, प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरश्चतुष्पदानां सिंहादिः अपदानामर्जुनसुवर्णपनसादिः 6, एवं क्षेत्रकालभावपराण्यपि तत्परादिषडिधत्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं // 728 //

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240