Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [-]
निर्युक्तिः [७८२-७८३], वि० भा० गाथा [२५८१-२५८३,२५८६], भाष्यं [१४५], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
Jain Education 1
धर्मः प्ररूपयितव्य इति अभिनिष्क्रमणकाले शक्रेण समर्पितमेकं देवदृध्यं प्रतिगृहन्ति, उक्तं च- “निरुवमधिइसंघयणा चउनाणाऽतिसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरीसहा सबे ॥ १ ॥ तम्हा जहुत्तदोसे पार्वति न वत्थपत्तरहियावि । तदसाहणंति तेसिं तो वग्गहणं न कुबंति ॥ २ ॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणत्थंति । अभिनिक्खमंति सधे तम्मि चुएऽचेलया होंति ॥ ३ ॥" ( वि. २५८१- ३ ) ततः कथं तैः सह सर्वसाम्यं प्रतिपत्तुं शक्यम् ?, अन्यच्च सर्वसाम्यप्रतिपत्तौ तीर्थकरैरिव न परोपदेशोऽपेक्षणीयः, नापि छद्मस्यैः सद्भिः परेभ्य उपदेष्टव्यं न च शिष्यवर्गो दीक्षणीय इत्यापन्नस्तीर्थव्यवच्छेद इति नैप पक्षः, आह च- "न परोवएसवसया न य छउमत्था परोवएसंपि । देति नय सीसवग्गं दिवखंति जिणा जहा सधे ॥ १ ॥ तह सेसेहिवि सवं, कज्जं जइ तेहि सबसाहम्मं । एवं च कतो तित्थं ? न चेदचेलोत्ति को गाहो ! ॥ २ ॥ (वि. २५८६-७ ) देशपक्षस्त्वस्माभिरभ्युपगत एव, येषानुकारस्य लोचकरणमात्रेण चरितानुकारस्यैषणीयाहारपरिभोगानियतवासादिना (च) क्रियमाणत्वात्, यदप्युक्तम्- 'वस्त्रं च ग्रन्थ' इत्यादि, तदपि न सुन्दरं, संयमोपकारितया वस्त्रे धर्मोपकरणत्वेन ग्रन्थत्वायोगात्, तथाहि यद्धर्मोपकरणं न स ग्रन्थः, धर्मोपकरणं च वस्त्रमिति व्यापक विरुद्धव्याप्तोपलब्धिः, ग्रंथत्वं हि बन्धुहेतुत्वेन व्याप्तं, प्रश्नाति जीवं कर्ममलेनेति ग्रन्थ इति व्युत्पत्तेः कर्म्मबन्धहेतुताप्रतिपक्षभूतेन च कर्म्ममलापगमहेतुत्वेन व्याप्तं धर्मोपकरणत्वं, तथाहि धर्मः सम्यग्दर्शनज्ञानचारित्ररूपः, स उपक्रियते उपष्टभ्यते स्फीतिं नीयते इतियायद् अनेनेति धर्मोपकरणं, यच्च सम्यग्दर्शनादिकं धर्म्ममुपष्टनाति तत् परं परया कर्म्ममलापगमहेतुः सम्यग्दर्शनादिप्रभावतः सकलकर्मापगमलक्षणस्य मोक्षस्याभ्युपगमात् वस्त्रमपि च शुभध्या
For Pivate & Personal Use Only
~265~
janelibrary.org
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316