Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [१]. निर्युक्तिः [८२४-८२५] वि० भा० गाथा [-] भाष्यं [१५०] मूलं [- /गाथा - मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
Jain Education International
पद्यते सामायिकं, सङ्किष्टाध्यवसायत्वात्, प्राकूप्रतिपक्षस्तु त्रिष्वपि परिणामेषु चतुर्णामपि सामायिकानां भवतीति । सम्प्रति वेदनाद्वारं समुद्घातक्रियाद्वारं च प्रतिपिपादयिषुराह-
दुविहाइ बेअणाए पडिवजह सो चउण्ड्मन्नयरं । असमोहओवि एमेव पुत्रपडिवन्नए भयणा ।। ८२४ ॥ द्विविधायामपि सातासातरूपायां वेदनायां सत्यां प्रतिपद्यते स जीवश्चतुर्णामपि सामायिकानामन्यतरत् सामायिकं, प्राक्प्रतिपद्मस्तु नियमादस्ति, 'असमोहतोऽचि एवमेव त्ति असमवहतोऽपि वेदनादिसमुद्घातरहितोऽपि एवमेव- पूर्वोकन्यायेन वेदितव्यः, सोऽपि चतुर्णां सामायिकानामन्यतरत् सामायिकं प्रतिपद्यमानः संभवति, प्राक्प्रतिपन्नस्तु नियमाद्विद्यत इत्यर्थः, समवहतस्तु केवलिसमुद्घातादिना सप्तविधसमुद्घातेन न किञ्चित्प्रतिपद्यते, किन्तु 'पुवपडिवन्नए भयणा' इति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना समर्थना कार्या, यथा समवहंता सामायिकद्वयस्य त्रयस्य वा प्रा.प्रतिपन्नो लभ्यते, तत्र केवलिसमुद्घाते सम्यक्त्वच्चारित्रसमायिकद्वयस्य पूर्वप्रतिपन्नकः, शेषसमुद्घातेषु पुनः सम्यक्त्व श्रुतसामायिकद्वयस्य यदिवा सम्यक्त्वश्रुत देश विरतिसामायिकत्रयस्य अथवा सम्यक् श्रुतसर्वविरतिसामायिकत्र्यस्येति, समुद्घातश्च सप्तविधो, यतोऽन्यत्रोक्तं- "केव लिकसाथ मरणे वेयणा विजवितो व आहारे । सत्तविह समुग्धातो पण्णत्तो बीयरागेहिं ॥ १ ॥ " गतं द्वारद्वयम् । अधुना निर्वेष्टनद्वारप्रतिपादनार्थमाह
दवेण य भाषेण य निचेङ्गितो चउण्हमन्नपरं । नरएसु अणुवडे दुग तिग चउरो सिउबट्टे ।। ८२५ ॥ निर्वेष्टनं द्विघा द्रव्यतो भावतश्च तत्र द्रव्यतः कम्मंप्रदेशविसंघातरूपं, भावतः क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म्म
For Private & Personal Use Only
~ 311~
www.janbrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316