Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 120
________________ प्रथम प्रकाश आगत्योपाश्रये तत्र स्थित्वा स्वल्पदिनानि सः। ततः प्रतस्थे सूरीशः पूर्वाद्रेरिव भानुमान् ॥ १०५ ॥ श्राद्धवगैः प्रतिग्रामकृतमावेशिकोत्सवः। श्रीहीरः पावनीचके क्रमात् फत्तेपुरं पुरम् ॥ १०६ ॥ अनेकवाद्यनिर्घोषबधिरीकृतदिङ्मुखः। श्रीसंघः स्थानसिंहाद्यः सर्वः संमुखमीयिवान् ॥ १०७ ॥ नमस्कृत्य कणेहत्य क्रमं तद्देशनारसैः। गाङ्गेयरूप्यमुद्राभिरङ्गपूजां व्यधाच सः॥ १०८ ॥ तत्तत्तदङ्गविन्यस्तं वर्णमुद्रामिषात् किमु ।। श्रीगुरुन् सेवयांचके खर्ण तत्कान्तिकावया ॥ १०९॥ स्थापितास्तन्नवाङ्गेषु तारमुद्राश्च रेजिरे। तारास्तद्दम्भतः किं तवक्त्रचन्द्रं निषेविरे ॥ ११०॥ • ६७. शाहिअकबर-हीरसूरिसम्मिलनवर्णनम् । तस्मिन्नेव दिने प्रीतिपूर्वकं शाहिना समम् । पूर्वोक्तसचिवद्वारा मिलितास्ते महौजसः॥१११॥ हर्षोत्कर्षोल्लसत्वान्तवक्त्री तत्रैव विष्टरे।। पुष्पदन्ताविवैकत्र तावुभावपि तस्थतुः ॥ ११२ ॥ धर्म पप्रच्छ भूभर्ता खागतप्रभपूर्वकम् । सर्वोत्कृष्टतमं ते च दयामूलं तमभ्यधुः ॥ ११३ ॥ अत्यन्तमृगयासक्तमनसोऽपि महीपतेः। तदाकोभवत्तस्य कृपया कोमलं मनः ॥ ११४ ॥ कारं कारं नमस्कारं दर्श दर्श च दर्शनम् । मारं स्मारं गुणग्रामं वारं वारं नृपोऽवदत् ॥ ११५॥ अहो! प्रादुरभूद्भाग्यमहो! वृष्टिरभ(रन ?)भ्रभूः। लोचनाभ्यां यदद्य त्वं दृष्टः शिष्टशिरोमणिः ॥ ११६ ॥ भूलोके भोगिलोके च खोके स न कश्चन । येनोपमीयसे तेन त्वमेव त्वन्निदर्शनम् ॥ ११७॥ भूमान भूयोऽप्यभाषिष्ट तद्गुणान् वीक्ष्य विस्मितः। श्रीमद्भ्यः किं निरीहेभ्यो दातुमौचित्यमश्चति ॥ ११८॥ ततोऽस्मदीयसौधेऽस्ति जैनराद्धान्तपुस्तकम् । ऊरीकृत्य तदस्माकं विधेयोऽनुग्रहो महान् ॥ ११९॥ इत्युदीरितमाकये सकर्णगण केसरी । तत् समादाय तत्रैव चित्कोशीकृत्य मुक्तवान् ॥ १२०॥ भा.२

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180