Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 144
________________ चतुर्थ प्रकाश हिरण्यमिव लोहेषु रसेष्विव सुधारसः। मुख्यः सर्वकुमारेषु कोऽयं मुनिकुमारकः ? ॥ ८०॥ ततः श्रीवाचकैरूचे-'प्रकृत्या विनयान्वितः। अष्टावधानविज्ञानमल्लीदाममधुव्रतः॥ ८१॥ मच्छिष्यः सिद्धिचन्द्रोऽयं वैराग्यादातग्रतः । साम्प्रतं गूर्जरत्रातो मत्समीपमुपागतः ॥ ८२॥ तस्यादृष्टचरं दृष्ट्वा सौन्दर्य हृदि विस्मितः। लेहेन शाहिनाऽऽहूय निर्निमेषं निरीक्षितः॥ ८३ ॥ अन्तःसभमथाहूय समक्षं सर्वभूभुजाम् । अवधानविधानादिपरीक्षां कृतवान् प्रभुः॥ ८४ ॥ अतुलां तत्कलां चैनां दर्श दर्श चमत्कृतः। विख्यातं 'खु स्फ ह मेति तस्य नाम प्रदत्तवान् ॥ ८५॥ भूयोभूयस्तमित्याह प्रसन्नवदनप्रभुः । 'त्वया मत्सूनुभिः सार्द्ध स्थेयमत्रैव नित्यशः ॥ ८६ ॥ कदाचित् शाहिनाऽऽहूतः कदाचन पुनः खतः। असावन्तःसभं गच्छन्नधीयानश्च तिष्ठति ॥ ८७॥ महाभाष्यादिकान्येष नाना व्याकरणानि च । नैषधादीनि काव्यानि तर्काश्चिन्तामणीमुखान् ॥ ८८ ॥ काव्यप्रकाशप्रमुखानलङ्काराननेकशः। छन्दःशास्त्राण्यनेकानि नाटकान्यपि लीलया ॥ ८९॥ अध्यष्ट सर्वशास्त्राणि स्तोकैरेव दिनैस्ततः। शाहिना प्रेरितोऽत्यन्तं सत्वरं पारसीमपि ॥ ९ ॥ आहूत्येव बृहद्भानुर्विद्युतेव बलाहकः। ज्योत्स्नयेव निशारत्नं तयाऽत्यर्थं व्यराजत ॥ ९१॥ अथो महीन्द्रमाज्ञाप्य श्रीनन्दिविजयाः पुनः। श्रीमत्सूरीश्वरोपान्तं जग्मुर्जरमण्डलम् ॥ ९२ ॥ इतश्च हीरसूरीन्द्राः स्वर्गलोकमशिश्रियन् । अनाकण्यं तदाकर्ण्य धराधीशः शुचं व्यधात् ॥ ९३ ॥ अप्राक्षीदश्रुपूर्णाक्षो वीक्षापन्नश्च वाचकान् । 'कुत्र ग्रामे ययुर्देवभूयं श्रीहीरसूरयः ॥ ९४ ॥ विलक्षा जगदुस्तेऽपि-राष्ट्रे सौराष्ट्रनामनि । विद्यते बन्दिरं द्वीपं परीतं परितोऽधिना ॥ ९५ ॥ भा०५

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180