Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भानुचन्द्रगणिचरित-परिशिष्ट
नवीनकविताकान्ताभिमानवतशालिनः । स्वगुरोः सूरचन्द्रस्य प्रणम्य चरणाम्बुजम् ॥२॥ भावचन्द्रादिशिष्याणां सम्यग्व्युत्पत्तिहेतवे । नामसङ्ग्रह नामानि विलिख्यन्ते पृथक पृथक् ॥ ३॥ रूढयौगिकमिश्राख्याः त्रिधा शब्दाः प्रकीर्तिताः । व्युत्पत्तिवर्जितास्तत्र रूढा आखंडलादयः॥४॥ व्युत्पत्तिभाजः सर्वेऽपि मन्यते शाकटायनः । तन्मतेऽपि तदन्वर्थवर्जितः प्रथमो मतः ॥५॥ यौगिका योगजनिता योगस्तत्रान्वयो मतः । गुणक्रियाभ्यां संभूतः संवंधप्रभवश्च सः॥६॥ गुणतो नीलकंठाद्याः क्रियातः स्रष्टसंनिभाः । स्वस्वामित्वादि संबंधस्तत्राहुर्नाम तद्वताम् ॥७॥
अनयोरर्थः । शब्दानां परमार्थानुगमनमन्वयः स योगो गुणक्रियासम्बधाञ्च भवति मंगलं भद्रं मद्रं शस्त ।...इति शत्रुजयकरमोचनादिसुकृतकारि महोपाध्याय श्री ५ भानुचंद्रगणि विरचिते विविक्तनामसंग्रहे देवाधिदेवकांडः प्रथमः ॥
स्वर्ग इति स्वर्गः......आदित्येत्यादि सूर्य नामानि । आदित्यः सविता । ......पूज्यनामतः प्रयोज्याः। यथा गुरुपादाः । अर्हत्भट्टारकः । कुमारपालदेवः । शेषश्चात्रः। भट्टारकः भट्टः। आवुकादयो नांद्यप्रस्ताव(व)त् नांद्योक्ती दृष्टव्याः॥ इति श्री... भानुचन्द्रविरचिते विविक्तनामसंग्रहे द्वितीयः कांडः ॥ छः ॥
अथ तृतीय मर्त्यकांडमारभ्यते ॥ मनुष्यनाम मर्त्यः......एते सर्वेपि म्लेच्छजातयः स्युः ॥ इति श्री...तृतीयकाण्डः ॥
अथ तिर्यकांडचतुर्थमाख्यायते तत्र पृथिव्यप्तेजोवायुवनस्पतिभेदेनेकेंद्रियाः......॥ शत्रुजयकरमोचनादि सुकृतकारि महोपाध्याय श्री भानुचन्द्र गणि विरचिते विविक्तनामसंग्रहे चतुर्थः कांडः॥
पंचमं नारकं कांडमारभ्यते, नारकं नाम नरके भवा नारकाः.........भूमिविवरनाम ॥ गतः पुंस्त्रीलिंगः । श्वभ्रः अवट भगाधः दरः त्रिलिंगभूमिविवरमिति श्री नामसंग्रहे पंचमः कांडः॥
षष्ठं सामान्यकांडमार(भ्य)ते ॥ लोक नाम......यदाहुः-इयंत इति संख्यानं निपातानां न विद्यते । प्रयोजनवशादेते निपात्यंते पदेपदे॥
अन्ते-इति श्री शत्रुजयकरमोचनादि सुकृतकारक महोपाध्याय श्री ५ भानुचन्द्र गणि विरचित नाममालायां षष्ठः कांडः संपूर्णः ॥ ६ ॥ छः॥
1) संवत १६९८ वर्षे मार्गशिर मासे शुक्ल पक्षे पंचम्यां तिथौ गुरुवासरे लिषता श्यामपुरी मध्ये। यादृशं पुस्तके दृष्टा तादृशं लिखतं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयतां ॥ १॥ श्री(शुभं भवतु ॥ कल्याणमस्तु ॥ श्री॥ This is an incorrect copy of 113 folios Dehla's UpāSraya's Bhandar at Ahmedabad. (२) इति श्रीमतपोगणगणनाङ्गनगगनमणिभट्टारकसार्वभौमभट्टारकश्री ५ श्रीविजयसेनसूरीश्वराणां विजयराज्ये पतिसाहश्री ५ श्रीअकब्बरजलालदीनप्रदत्तोपाध्यायधारकश्री शक(त्रु)जयकरमोचनाद्यनेकसुकृतकारक महोपाध्यायश्री ५ श्री भानुचन्द्रगणिविरचिते विविक्तनामसंग्रहे षष्ठः काण्डः समाप्तः । संवत् १७८५। Mitra's Notices X, no. 4015 pp. 151-152.1 ८ विवेकविलासटीका। आदौ-आनम्रकम्रामरपूर्वदेवं श्री मारुदेवं प्रणमामि देवम् ।
व्यनक्ति निःशेषपदार्थसार्थान् यदीयगीरद्भुतदीपिकेव ॥ १॥ शान्तेर्निशान्तं शिवतातिरस्तु श्री शान्तिनाथो जगदेकनाथः । कुरङ्गलक्ष्मापि जिनाधिराजो जज्ञे कदाचिन्न कुरङ्गभृद् यः॥२॥ अरिष्टनेमिर्भगवानरिष्ट-संघातनिर्घातकृदस्तु वः सः। सुपर्वशाखीव समीहितार्थ करोति यत्पादयुगप्रणामः ॥३॥ विघ्नौघविध्वंसनसावधानं तं पार्श्वनामानमधीशमीडे । पद्माकरोल्लासकरो नराणां यन्नाममन्त्रोऽजनि मित्रतुल्यः॥४॥ वीरं जिनं चेतसि दध्महे तं सुपर्खपृथ्वीधरशृङ्गधीरम् ।। गवां विलासैर्भुवनप्रवोधं चकार यो भानुरिवोरुतेजाः ॥५॥ श्रीमत्तपागणगणाधिपलब्धबोधिर् हानर्षिरित्यजनि पण्डितवृन्दवर्यः। तस्यान्तिषत्सकलवाचकमौलिमौलिः श्रीवाचकः सकलचन्द्र इति प्रसिद्धः॥६॥ शिप्यस्तदीयोऽजनि सूरचन्द्राभिधः सुधिः कोविदवृन्दचन्द्रः ।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180