Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 168
________________ भानुचन्द्रकृतग्रन्थ- प्रशस्त्यादि । नवीनभास्वत्कवितैककान्ता मानवतीत्यद्भुतकीर्तिकान्तः ॥ ७ ॥ सिद्धाद्रेः करमोचनादिसुकृतश्रेणिपवीत्रीकृत-स्वान्तः शाहिसुदत्त 'वाचक' पदः श्री भानुचन्द्राभिधः । तच्छिष्यः कुरुते विवेककलितो ग्रन्थो विलासाभिधो यस्तस्याभिमतार्थसार्थ रुचिरां वृत्तिं सतां संमताम् ॥ ८ ॥ इह शिष्टाः शास्त्रादौ कचिदिष्टे वस्तुनि प्रवर्त्तमाना अभिमत देवतानमस्कारपूर्वकमेवोपक्रमन्ते इति शिष्टाचारपरिपालनाय प्रारिप्सितपरिसमाप्तिप्रतिबन्धकदुरितनिवर्त्तनाय च प्रस्तुतग्रन्थसूत्रकारो वायट गच्छीयजिनदत्तसूरिरादौ तमाह 'शाश्वतानन्द' इति । ... ५७ अन्ते इति श्री शत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्याय श्री भानुचन्द्रगणिविरचितायां विवेकविलासटीकायां द्वादश उल्लासः । समाप्तोऽयं विवेकविलासाख्यो ग्रन्थः ॥ विवेकविलासटीकायां ग्रन्थकारकृतस्वगच्छादिप्रकटनरूपप्रशस्तेर्व्याक्या संपूर्णा ॥ क्ष्मापाल मौलिमणिशाहि अकब्बराख्यसम्प्राप्तसर्वजनताविदितप्रतिष्ठः । श्रीजैनशासनसमुन्नतिलब्धविश्वविश्वम्भरावलयविश्रुतकीर्त्तिपूरः ॥ १ ॥ श्रीभानुचन्द्रवरवाचकचक्रवर्ती स्पष्टार्थदामतिविवेक विलास वृत्तिम् । एतामविश्रुततरामुपकर्त्तुमन्यान् निःशेषपर्षदुचितां रचयांचकार ॥ २ ॥ युग्मम् ॥ श्रीमत्सुधर्ममुखसूरिपरम्परायां श्रीसूरिहीरविजयस्तपगच्छनेता । आसीदकब्बरधराधिपतिप्रदत्तां ख्यातिं जगद्गुरुरिति प्रथितां दधानः ॥ ३ ॥ तत्पट्टपूर्वगिरिशृङ्गसहस्त्रभानुः सूरीश्वरो विजयसेनमुनीन्द्रचन्द्रः । श्रीपात साहि परिषज्जयवादलब्धः ख्यातोऽभवत् कुमतमत्तमतङ्गसिंहः ॥ ४ ॥ तत्पट्टेऽभूत् सततनिरतिचारचारित्र चारुश्चातुर्विद्योदधि......कधी भाग्यसौभाग्यभूमिः । पारंपर्यागतवचनसंवादिधर्मोपदेशः सूरिः श्रीमद् विजयतिलकः शुद्धवैराग्यरंगः ॥ ५ ॥ तत्पट्टे प्रकटोदये पटुतरप्राप्तप्रतिष्ठान्वये सद्वाचंयमराजिराजि विजयानन्दाभिधाने प्रभौ । श्रीमत्सूरि शिरोमणौ विजयिनि श्री सिद्धिचन्द्राभिधान् निर्देशं समवाप्य वाचकसभाशृंगारहारोपमात् ॥ ६ ॥ वाचकशिरोवतंसश्रीमत् कल्याणविजयगुरुशिष्यैः । स्वपरागमार्थतत्त्वोदधिभिः श्री लाभविजयबुधैः ॥ ७ ॥ श्रीदेवविजय-विद्वद्विनेय-जयविजयबुधयुतैश्चैषा । समशोधि सिद्धि-मुनि-रस- शशिमितवर्षे चिरंजीयात् ॥ ८ ॥ इति प्रशस्तिः ॥ शुभं भवतु ॥ ग्रंथाग्रसंख्या ६६२१ अक्षर १२ ॥ कल्याणमस्तु ॥ भद्रमस्तु ॥ [ Folios 201 lines 14 each—Good correct and old MS. no. 304 Sri Bhaktivijaya's collection with Sri Jaina ātmānanda Sabhā, Bhāvanagar. ( 2 ) The final 5th verse referring to विजयतिलकसूरि in the ending portion is omitted and in the next verse in the place of विजयानंदाभिधाने, words विजयादेवोभिधाने are wrongly substituted - इति प्रशस्तिः समाप्ता ॥ folios 145 no. 55 Pra. Kantivijaya's Bhandār at Baroda. ( 3 ) The last 4 verses in the ending portion are omitted — इति विवेकविलासप्रशस्तिः संपूर्णा । ग्रं ७७५०. A fresh copy of 300 folios or 10 lines each, written in S. Y. 1967 no. 1465. Hansavijaya's Bhandar at Baroda. (4) With the omission of the last four verses इति श्रीविवेकविलास समाप्तम् ॥ - New incorrect_ms. no. 304 śri Bhaktivijaya's collection with Sri Jaina Atmānada Sabha, Bhāvanagar.] ९ षट्त्रिंशिकावृत्ति ( ईर्यापथिकी ) - भा० ८ [No copy was accessible to me hence its beginning and ending portions could uot be cited.]

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180