________________
चतुर्थ प्रकाश हिरण्यमिव लोहेषु रसेष्विव सुधारसः। मुख्यः सर्वकुमारेषु कोऽयं मुनिकुमारकः ? ॥ ८०॥ ततः श्रीवाचकैरूचे-'प्रकृत्या विनयान्वितः। अष्टावधानविज्ञानमल्लीदाममधुव्रतः॥ ८१॥ मच्छिष्यः सिद्धिचन्द्रोऽयं वैराग्यादातग्रतः । साम्प्रतं गूर्जरत्रातो मत्समीपमुपागतः ॥ ८२॥ तस्यादृष्टचरं दृष्ट्वा सौन्दर्य हृदि विस्मितः। लेहेन शाहिनाऽऽहूय निर्निमेषं निरीक्षितः॥ ८३ ॥ अन्तःसभमथाहूय समक्षं सर्वभूभुजाम् । अवधानविधानादिपरीक्षां कृतवान् प्रभुः॥ ८४ ॥ अतुलां तत्कलां चैनां दर्श दर्श चमत्कृतः। विख्यातं 'खु स्फ ह मेति तस्य नाम प्रदत्तवान् ॥ ८५॥ भूयोभूयस्तमित्याह प्रसन्नवदनप्रभुः । 'त्वया मत्सूनुभिः सार्द्ध स्थेयमत्रैव नित्यशः ॥ ८६ ॥ कदाचित् शाहिनाऽऽहूतः कदाचन पुनः खतः। असावन्तःसभं गच्छन्नधीयानश्च तिष्ठति ॥ ८७॥ महाभाष्यादिकान्येष नाना व्याकरणानि च । नैषधादीनि काव्यानि तर्काश्चिन्तामणीमुखान् ॥ ८८ ॥ काव्यप्रकाशप्रमुखानलङ्काराननेकशः। छन्दःशास्त्राण्यनेकानि नाटकान्यपि लीलया ॥ ८९॥ अध्यष्ट सर्वशास्त्राणि स्तोकैरेव दिनैस्ततः। शाहिना प्रेरितोऽत्यन्तं सत्वरं पारसीमपि ॥ ९ ॥ आहूत्येव बृहद्भानुर्विद्युतेव बलाहकः। ज्योत्स्नयेव निशारत्नं तयाऽत्यर्थं व्यराजत ॥ ९१॥ अथो महीन्द्रमाज्ञाप्य श्रीनन्दिविजयाः पुनः। श्रीमत्सूरीश्वरोपान्तं जग्मुर्जरमण्डलम् ॥ ९२ ॥ इतश्च हीरसूरीन्द्राः स्वर्गलोकमशिश्रियन् । अनाकण्यं तदाकर्ण्य धराधीशः शुचं व्यधात् ॥ ९३ ॥ अप्राक्षीदश्रुपूर्णाक्षो वीक्षापन्नश्च वाचकान् । 'कुत्र ग्रामे ययुर्देवभूयं श्रीहीरसूरयः ॥ ९४ ॥ विलक्षा जगदुस्तेऽपि-राष्ट्रे सौराष्ट्रनामनि । विद्यते बन्दिरं द्वीपं परीतं परितोऽधिना ॥ ९५ ॥
भा०५