________________
श्रीभानुचन्द्रगणिचरित तन्निरीक्षणसंप्राप्तलोकानां श्रीफलैः पुनः । रूप्यमुद्रायुतैर्युक्त्या स्वयं चक्रे प्रभावनाम् ॥ १४॥ जृम्भकव्रजवजन्मोत्सवे शम्भोर्वणिग्वराः। ववर्षः स्वर्णधाराभिस्तस्मिन्नन्दिमहोत्सवे ॥६५॥ गो-महिष्यादिजन्तूनां वधव्याषेधसूचकम् । श्रीशाहिना स्फुरन्मानं दत्वा संमानपूर्वकम् ॥ ६६ ॥ सूरयः समनुज्ञाता जग्मुर्जरमण्डले। रक्षिताः सन्निधावेव श्रीनन्दिविजयाः पुनः ॥ ६७ ॥ इतश्च हीरसूरीन्द्रैर्विमृश्येति मुहुर्मुहुः। विनेयानां न चैतेषां लाभो लाभपुरेऽभवत् ॥ ६८॥ दीक्षां दत्वा ततस्तेषां प्रहितो प्रीतिपूर्वकम् । सहोदरौ भावचन्द्र-सिद्धिचन्द्राभिधौ शिशू ॥ ६९ ॥ तयोर्ध्यायान् गुरोर्वैयावृत्त्यादिप्रविधानतः। श्लाघ्यमानोऽस्ति सर्वत्र नन्दिषेण इवापरः॥७॥ कनीयांस्तु समग्रश्रीसुभगो विश्वविश्रुतः। अनन्यलभ्यसौन्दयेन्यत्कृतश्रीतनूद्भवः ॥७१॥ जगन्नयनपीयूषकलशैरनिशं भृशम् । सिच्यमानः क्रमेणाथ ववृधे कल्पवृक्षवत् ॥७२॥ परस्परस्पर्द्धयेवावर्द्धन्तः सकलाः कलाः । यद्यप्यत्र तथाप्युचैरद्भुतः प्रतिभागुणः ॥ ७३ ॥ उपायचतुरा यस्य धिषणा सर्वतोमुखी। यत्पुरोऽभय-रोहादिप्रतिभा वर्णिकायते ॥७४ ॥ अन्येयुः कौतुकायातं सिद्धिचन्द्रमुनिं नृपः।। पुरः स्मरमिवाद्राक्षीद्भवभीत्या धृतव्रतम् ॥ ७ ॥ रूपातिशयविस्फूत्तौं तस्य मूत्तौं नरेशितुः। स्पर्द्धयेवाक्षियुग्मस्य जगाम स्थिरतां मनः॥७६ ॥ आनन्दामृतमग्नस्य लीनं तस्य मनस्तथा। यथा गुरुं च विश्वं च खं च नो बुबुधे तदा ॥ ७७॥ अमाक्षि च मुनीन्द्राणां-'द्विपेष्विव सुरद्विपः। सुधांशुरिव धिष्ण्येषु त्रिदिवाद्रिरिवाद्रिपु ॥ ७८॥ शालिधान्यमिवान्नेषु कल्पद्रुम इव द्रुषु । अम्भोधिष्विव दुग्धाब्धिश्चम्पकः कुसुमेष्विव ॥७९॥