________________
चतुर्थ प्रकाश प्रमाणीकृत्य मद्वाक्यं पूर्व श्रीहीरसूरयः। श्रीमतां भानुचन्द्राणामुपाध्यायपदं ददुः॥ ४९॥ अस्मद्वाक्यादुपाध्यायपदस्यानन्दपूर्वकम् । नन्दिर्युष्माभिरेतेषां यथाविधि विधीयताम् ॥५०॥ सविशेषं पुनः शेखं विशेषज्ञमभाषत । युष्माभिस्तन्महः कार्य स्वयं गत्वा प्रतिश्रयम् ॥५१॥ तदाकर्ण्य समुत्कर्णः सकर्णगणकेसरी। श्रीसूरिमन्त्री शेखश्च सद्यस्तत्प्रत्यपद्यते ॥५२॥ ततः श्रीसूरयः शंखमन्त्री च सपरिच्छदः । राज्ञो निर्देशमासाद्य प्रतिश्रयमशिश्रियुः ॥ ५३॥ . राजन्यहास्तिकाश्चीय नैकतूर्यादिडम्बैरम् । स गुणी प्रगुणीचक्रे महोत्सवविधित्सया ॥ ५४॥ मन्त्रिणा सार्द्धमभ्येयुर्महेभ्याः श्राद्धपुङ्गवाः। शर्वरीसार्वभौमेन नभोमार्गे ग्रहा इव ॥ ५५॥ तेष्वासन् शासने जैने लीना मीना इवाम्बुनि । स्थानसिंहादिमा मान्या अमात्या इव भूपतेः ॥५६॥ अरंतुदं कुपक्षाणामिवासेचनेकं सताम् । यथाशत्तयुत्सवं कर्तुं काङ्क्षन्तस्तन्मुनेस्तदा ॥५७ ॥ निर्शितायसशल्यानि हृदि मिथ्यादृशामिव । आनयन्ति स्म ते तूर्याण्यकब्बरमहीहरेः॥५८॥ अथ श्रीसूरयस्तेषामु पा ध्या य'पदस्य ते। नन्दिमानन्दसम्पूणों रचयांचक्रिरेतराम् ॥ ५९॥ ददौ बृहद्वर्द्धमानविद्यामेतस्य सूरिराट् । जातवेदाः स्फुरज्योतिनिकेतनमणेरिव ॥ ६॥ किन्नर्य्य इव नागर्यो जगुर्गीतिं पिकीकणाः। पौरीभिर्दीयते स्माशीरक्षतक्षेपपूर्वकम् ॥ ६१ ॥ त्रिलोकीमपि कुर्वाणं तत्र चित्रीकृतामिव । नेत्र-श्रोत्रसुधास्यन्दि तौर्यत्रिकमजायत ॥ ६२॥ श्रीशेखोऽप्यथ निःशेषहृल्लेखोल्लेखभूषितः ।
मार्गणेभ्यस्तुरगाणां प्रादादष्टोत्तरं शतम् ॥ ६३ ॥ १अौचकारेत्यर्थः।-टिप्पणी । २ राज्ञोऽपस्यानि पुमांसो वा राजन्याः।-टि.। ३ आडम्बरमित्यर्थः ।-टि.। ४ इव यथा चन्द्रेण प्रहाः समायान्तीत्यर्थः ।-टि.। ५ तदासेचनकं यस्य दर्शनाद् दृग् न तृप्यति ।-टि.। तीक्ष्णलोहसंधिशल्यानि ।-टि। ७ अकबरमहीन्द्रस्य-टि.। ८ इव यथा जातवेदाः अग्निः निकेतनमणेः दीपस्य स्फुरज्योतिर्ददातीत्यर्थः ।-टिप्पणी।
30