________________
15
श्रीभानुचन्द्रगणिचरित अस्ति तन्निकषा ग्रामो धाम यः सर्वसम्पदाम् ऊना नाम्ना महिम्ना तु पुरुहूतपुरोपमः॥ ९६॥ निरवर्तत निर्वाणं तत्र तेषां महात्मनाम् । तद्दहस्याग्निसंस्कारस्तस्यैवोपवने पुनः ॥ ९७ ॥ आश्चर्य तचिताधूमश्लेषान्माकन्दपादपाः। अकालेऽपि फलन्ति स्म श्रीगुरूणां प्रभावतः ॥ ९८ ।। तत्र स्तूपकृते तेषां भूमिरीषत् प्रदीयताम्। आकर्ण्य मापतिः श्रीमद्वाचकेन्द्रादिदं वचः ॥ ९९ ॥ 'दशवीघा'मितक्षेत्रपत्रं कृत्वा प्रदत्तवान् । रङ्गचन्द्रनिजभ्रातृहस्ते तत्प्रेषितं च तैः ॥ १० ॥ तस्मिन् ग्रामे ततः स्तूपं चक्रे पत्रात्यनन्तरम् । भक्तियुक्तेन सङ्घन विमानं खर्गिणामिव ॥ १०१॥ इतः कश्मीरकिञ्जल्कपुष्पोद्गमदिक्षया। प्रतस्थे पृथिवीनाथः पुनः श्रीनगरं प्रति ॥ १०२ ॥ अमन्दानन्दसंपूर्णः शाहिः सत्कृत्य वाचकान् । सार्द्धमाकारयामास सिद्धिचन्द्रसमन्वितान् ॥ १०३ ॥ पठन्तः पारसीग्रन्थांस्तत्तनूजाङ्गजैः समम् । प्रातः पूर्वेदिनाभ्यस्तं पुरः श्रावयतः प्रभोः॥१०४॥ कुर्वतश्च वरीवस्यों शाहेः लेहार्द्रचेतसः। प्रसिद्धिः सिद्धिचन्द्रस्य सर्वत्र ववृधेतराम् ॥ १०५॥ पर्वतान् रत्नपंजाल-पीरपंजालकादिकान् । हिमैरभ्रंलिहैस्तुङ्गशृङ्गानुल्लङ्घय दुर्गमान् ॥ १०६ ॥ क्रमाद्गत्वाथ कश्मीरं दृष्ट्वा काश्मीरभूरुहान् । प्रफुल्लकुसुमामोदलोलरोलम्बचुम्बितान् ॥ १०७ ॥ स्थित्वा च कतिचिन्मासांस्तत्राश्चर्यदिदृक्षया । प्रत्यावृत्त्य पुनर्लाभपुरं शाहिरभूषयत् ॥ १०८ ॥-त्रिभिर्विशेषकम् । कुरङ्गक्रीडयाऽऽसक्तः कुरङ्गेणान्यदा नृपः। शृङ्गाग्रेण तथा विद्धो यथा मूर्छामुपेयिवान् ॥ १०९॥ तत्प्रघातप्रतीकारानन्तर्दाम विधापयन् । सपत्राकृतितस्तस्थौ पञ्चाशद्दिवसान्नृपः॥ ११० ॥
20
30
१ तनूजागजाः पुत्रपुत्राः ।-टि० । २ वरीवस्या सेवा ।-टि। ३ अभं आकाशं लिहन्ति चुम्बन्तीत्यभ्रंलिहानि ।-टि। ४ केसरवृक्षान् ।-टि०। ५ रोलम्बा भ्रमराः ।-टि.। ६ 'सपत्राकृति-निष्पत्राकृती खत्यंतपीडने' इत्यभिधानचिन्तामणिः ।-टि।