________________
चतुर्थ प्रकाश अन्येषां गमनाभावात्तत्राविश्रम्भतः स्थितम् । श्रीशेखसहितैः श्रीमद्वाचकैरेव सन्निधौ ॥ १११ ॥ सोऽभवत् पूर्वपुण्येनोल्लाघः पुण्यचिकीः पुनः। गवां पश्चशतं भैषीदानार्थ तत्प॑तिश्रये ॥ ११२ ॥ ददुस्ते सुरभीः सर्वाः श्राद्धद्वारा द्विजन्मनाम् । नटीव तत्पुरे सा तत्कीर्तिरद्यापि नृत्यति ॥ ११३ ॥ अन्यदा हास्तिकाश्वियानेकराजन्यकैर्नृपः। चलामप्यचलां कुर्वन्नुग्रसेनपुरं ययौ ॥ ११४ ॥ भानुचन्द्रा अपि श्रीमसिद्धिचन्द्रसमन्विताः। समीयुः शाहिना साद्धं पाठयन्तश्च तत्सुतान् ॥ ११५ ॥ सिद्धिचन्द्रोपरि लेहस्तत्र शाहेर्महानभूत् । यदीहां चक्रिरे पौत्रास्तदुत्संङ्गेऽपि वर्द्धिताः ॥ ११६ ॥ तत्र चिन्तामणेश्चैत्यं प्रारब्धमपि तजनैः। शाहियुद्वाहितो मिथ्यादृष्टिभिस्तभ्यवारयत् ॥ ११७ ॥ कृतवांस्तत्पुनः सद्यः शाहेर्विज्ञप्तिपूर्वकम् । सिद्धिसौधसमारूढं सिद्धिचन्द्रः खशक्तितः ॥ ११८ ॥ इतः सौराष्ट्रराष्ट्रेऽस्मिन् तीर्थे श्रीविमलाचले ।
चैत्यं तन्मूलचैत्यान्तः प्रकुर्वद्भिः खगर्वतः ॥ ११९ ॥ पभूव श्रीतपागच्छश्रद्धालूनां मनविनाम् । सार्द्ध खरतरश्राद्धैरतुलः कलहोदयः ॥ १२० ॥ कथंचिदात्मनः कार्यविलम्बेनापि विद्विषाम् । क्षतिः कार्यस्य कार्येति स्मृत्वा नीतिविदां वचः ॥ १२१ ॥ अस्मिन्नतः परं नव्यं चैत्यं न क्रियतामिति । श्रीवाचकवराः शाहेः स्फुरन्मानमकारयन् ॥ १२२ ॥ अथ प्रतस्थिवान् जेतुं दाक्षिणात्यनृपान्नृपः। चतुरङ्गचमूचऊर्युक्तश्चक्रीव मूर्तिमान् ॥ १२३ ॥ प्रयाणैश्च रिपुप्राणप्रहाँणप्रवणैः क्रमात् । गोपाचलेति विख्यातं दुर्गदुर्गमुपागमत् ॥ १२४ ॥
१ विश्रंभो विश्वासः ।-टि.। २ उल्लाघः नीरोगः ।-टि.। ३ पुण्यं चिकीर्षतीति पुण्यचिकीः।-टि.। ४ प्रतिश्रय उपाश्रयः ।टि.।५ सुरभयो गावः।-टि०।६ पृथ्वी।-टि०। ७ शाहिपुत्रान् ।-टि० । ८ पौत्राः पुत्रपुत्राः ।-टि.। ९ उत्सङ्ग अङ्कः ।-टि.। १. उपसेनपुराप्रश्राद्धजनः ।-टि.। ११ श्रीशत्रुजयतीर्थे ।-टि.। १२ मानवतामित्यर्थः ।-टि.। १३ क्षतिः हानिः ।-टि.। १४ प्रहाणो विनाशं ।-टि । १५ दुर्गों वप्रः-दुःखेन गम्यते इति दुर्गः।-टि० ।