________________
श्रीभानुचन्द्रगणिचरित तत्र चादि समुत्कीर्य केनचिज्जैनभूभुजा। निर्मापितानि विद्यन्ते जैनबिम्बानि लक्षशः॥१२५ ॥ तानि व्यङ्गानि संवीक्ष्य विहितानि दुरात्मभिः। अवोचत् खेदभृत् क्ष्माभृद्वाचकान् स्वच्छमानसः॥१२६ ॥ 'यो गुणी ! प्रगुणीकुर्यात् 'विम्बान्येतानि बुद्धिमान् । तस्मै मत्कोशतो द्रव्यं प्रयच्छामि यथेप्सितम् ॥१२७ ॥ इत्थं तस्मिनुत्तमत्वाविसंवादिप्रवादिनि । तस्मै तत्कृत्ययोग्यं ते श्राद्धमेकमदर्शयन् ॥ १२८ ॥ तेन श्राद्धेन तद्व्यात् तत् कृत्यमचिरात्कृतम् । विलम्यः सर्वथा धर्मे यतो नौचित्यमञ्चति ॥१२९॥ उर्वीमुर्वीमथानुर्वीकुर्वन् सैन्यभरैर्निजैः। श्रीवर्हानपुरं भूभृत् प्रबहः प्राप्तवान् क्रमात् ॥ १३०॥ ततो दुर्ग विनिर्जित्यासेराख्यं खीयदोर्षलात् । सैन्यमुखान् पुरः प्रेष्य स्वयं तत्रैव तस्थिवान् ॥ १३१ ॥ पाठयन्तश्च तत्पौत्रान् श्रीमन्तो वाचका अपि । तस्थुस्तत्रैव तत्पार्धे सिद्धिचन्द्रसमन्विताः॥१३२ ॥ दत्तान्यदैन्यैस्तत्सैन्यैरथो युध्वा विजिग्यिरे । दाक्षिणात्या नृपाः सर्वे दुर्गदुर्गाधिवासिनः ॥ १३३ ॥ अन्यदा धर्मसंवादसादरं क्षमापुरन्दरम् । पूर्व तत्रत्यसंघेन प्रणुन्ना गुरवोऽवदन् ॥ १३४ ॥ 'श्रीवर्हानपुरे भूरि भूतिभिर्भरितेऽभितः। वर्तन्ते रम्यहाणि महेभ्याश्च सहस्रशः॥१३५॥ सर्वदर्शनिदेवानां नैकदेवकुलानि च। प्रासादः किन्तु जैनानामस्मिन्नैकोऽपि विद्यते ॥१३६ ॥ तेन कस्मादिति प्रोक्ते तैरूचेऽनार्यवारणात् । विहितोऽप्येकशः पूर्व पातितस्तैर्दुरात्मभिः ॥ १३७॥ तन्निशम्याभवद्भूमान् विषन्न(ण)हृदयस्ततः। चिकीर्षुस्तत्पुरं जैनप्रासादैर्भूरिभूषितम् ॥ १३८ ॥ खीयाधिकारिणस्तेषां श्राद्धानाहूय भूपतिः। तत्कृत्यकरणादेशं प्रादादत्युग्रशासनः ॥ १३९॥ प्रमाणीकृत्य निर्देशं प्रभोस्तेऽपि प्रचक्रिरे। मन्यमानाः खयं धन्यं प्रासादान् सप्रतिश्रयान् ॥ १४०॥
१ अद्रिः पर्वतः।-टि.।