________________
चतुर्य प्रकाश
तथाहिश्रीश्रीमालकुलाम्भोजभास्करः श्राद्धशेखरः। कंसारपाटके चक्रेऽजयराजः प्रतिश्रयम् ॥ १४१ ॥ श्रीसङ्घाधिपतिस्तत्र रिखुस्तस्यैव संनिधौ । भीडिभञ्जनपार्श्वस्य प्रासादं निरमीमपत् ॥ १४२ ॥ श्राद्धो दुर्जनशल्यस्तु मान्योऽमात्य इव प्रभोः। गिरेः शृङ्गमिवोत्तुङ्गं पीठे चैत्यमचीकरत् ॥ १४३ ॥ बिम्बमानाय्य रा(आ?)मेरात् श्रीशैवेयजगत्प्रभोः । तत्र च स्थापितं मूलनायकत्वेन वाचकैः ॥ १४४ ॥ अमात्रश्रद्धया श्राद्ध्या तत्रैवोचैरकार्यत । गौरीति ख्यातया चैत्यमन्यया च प्रतिश्रयः ॥ १४५ ॥ इत्थं श्रीपाठकप्रष्टोपदेशात्तत्र जज्ञिरे । प्रासादोपाश्रयादीनि श्रेयःकृत्यान्यनेकशः॥ १४६ ॥ कैलाशाचलसंकाशाः प्रासादाः सप्रतिश्रयाः। सन्ति ते तत्पुरेऽद्यापि श्रीगुरोर्यशसामिव ॥ १४७ ॥ अथ प्रतस्थे पृथ्वीशः कृतार्थः पार्थविक्रमः। वाचकेन्द्रस्तु तत्रैव शरीरावास्थ्यतः स्थितम् ॥ १४८ ॥ सिद्धिचन्द्रान सहादाय सलेहं पार्थिवः फ्रमात् । उग्रसेनपुरं प्राप पौरक्तृप्तोरुगौरवः ॥ १४९ ॥ सिद्धिचन्द्राः स्थितास्तत्र कुर्वन्तः शासनोन्नतिम् । अन्यानपेक्षया धर्मधुरं धौरेयवद्दधुः ॥ १५० ॥
यतःमदसिक्तमुखैम॑गाधिपः करिभिर्वर्त्तयते वयं हतैः। लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥ १५१ ॥ इतश्चाजीजकोकाख्यतनूजः खुरमाभिधः। उपत्यकास्थितं चैत्यं विमलाद्रेरपातयत् ॥ १५२॥ अधित्यकामूलचैत्यं काष्टैस्त्वापूर्य सर्वतः । इयेष वह्निसात्कर्तुं यावदत्यन्तदुष्टधीः ॥ १५३ ॥ श्रीमद्विजयसेनाख्यसूरीणां लेखहारकः । आगत्य सिद्धिचन्द्राणां तावल्लेखं प्रदत्तवान् ॥ १५४ ॥ तदन्तलिखितंतं च वृत्तान्तमवबुध्य ते । गत्वा कृत्वा च विज्ञप्तिं शाहेः पत्रमकारयन् ॥ १५५ ।।