________________
श्रीभानुचन्द्रगणिचरित तत्पत्रप्रेषणादेव सिद्धिचन्द्रविनिर्ममे । शत्रुञ्जयगिरेमूलचैत्योपद्रववारणम् ॥ १५६ ॥ तीर्थरक्षादिकृत्यं तत् कर्तुं तैरेव शक्यते। गजव्यापादनं यस्मात् सिंहैरेव विधीयते ॥ १५७ ॥ अन्यदाऽनन्यसौजन्यलेहोल्लासवशंवदः। स्मृत्वा श्रीवाचकेन्द्राणां शाहिर्लेखमलीलिखत् ॥ १५८॥ 'स्मर्त्तव्योऽहं त्वया लेहान्न मरिष्याम्यहं पुनः। स्मरणं चेतसो धर्मस्तचेतो भवता हृतम् ॥ १५९ ॥ इत्याद्यनेकच्छेकोक्तिप्रेमाविर्भावकं च तत् । प्राप्य हूत्यर्थमेतेऽपि तूर्ण तत्र समाययुः॥१६० ॥ आलोक्य श्रीगुरून सोऽपि प्रेम्णाऽऽलिङ्गयोल्लसन्मुदा। उत्कल्लोलाम्बुधेबलामधाचिरमथाभ्यधात् ॥ १६१ ॥ 'सद्यः प्रसय मत्पौत्राध्यापनागमनादिभिः। पूर्ववत् प्रीणनीयोऽहं'-ततस्तेऽपि तथा व्यधुः॥१६२॥ अत्रान्तरे च सूरीणामिति लेखः समागमत प्रत्यादेशात् पुरा शाहेर्नेव्यप्रासादनिर्मितेः ॥ १६३ ॥ कर्मस्थायकरैः कर्मस्थायं कर्तुं न शक्यते । ततः कार्य यथा शत्रुञ्जये स्याच्चैत्यनिर्मितिः॥१६४ ॥ अन्यथा तीर्थमुख्यस्योच्छेदः सम्भाव्यते ध्रुवम् । पतनाजीर्णचैत्यानां नव्यानां चाविधापनात् ॥ १६५ ॥ सिद्धिचन्द्रैर्जगन्नेत्रचन्द्र विज्ञप्य भूभुजम् । ततो निर्माय तत्पत्रं प्रहितं च प्रयत्नतः ॥ १६६ ॥ ततःप्रभृति चैत्यानि तत्रानेकानि जज्ञिरे । शरचन्द्रोज्वलास्तेषां पुनः सर्वत्र कीर्तयः॥ १६७ ॥ अथो शाहिसलेमस्य शाहिज्येष्ठाङ्गजन्मनः । देशोऽभूद् गूर्जरस्तत्र सामन्तान प्राहिणोच्च सः॥ १६८ ॥ ते चाकबरभूभर्तुः स्फुरन्मानं न मेनिरे। अमारिप्रभृतिश्रेयःकृत्ये विघ्नस्ततोऽभवत् ॥ १६९ ॥ लेखाद्विज्ञाय तवृत्तं सम्प्राप्यावसरं पुनः। संस्तवादिति विज्ञप्तः सिद्धिचन्द्रैर्नृपाङ्गजः ॥ १७० ।। गुर्जरे जीजिआ-मारि-शुल्कग्राहादिविप्लवः। श्रूयते शाहिसामन्तैः क्रियमाणः सुदुःसहः ॥ १७१ ॥