________________
चतुर्थ प्रकाश
तन्निशम्याभवद्भूमान् विषण्णहृदयः क्षणम् । तन्निवृत्तिकृते तेभ्यः पत्रं कृत्वाऽथ दत्तवान् ॥ १७२ ॥ ततः प्रभृति सर्वत्र शुल्कादीनां निवर्तनात् । तद्देशेष्वभवन् लोकाः सर्वेऽपि निरुपद्रवाः ॥ १७३ ॥
ॐॐ
ॐ
*
इतश्चाकबरक्ष्मापः प्रापदेकोऽपि पञ्चताम् । सलेमशाहिस्तद्राज्येऽभिषिक्तश्च सुमन्त्रिभिः ॥ १७४ ॥ उज्झितां दण्डशुल्कादिक्लेशलेशैरपि क्षितिम् । अपालयदयं बालमिवाप्रकुपितः पिता ॥ १७५ ॥ नातिष्ठत् पुरतः कश्चित् दिग्जैत्रे तत्र शात्रवः । अर्के विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ॥ १७६ ॥ अनेकैः सममेकाऽपि नानादेश निवेशिभिः । तस्याज्ञा मेने मूर्ध्नि विधेरिच्छेव जम्मिभिः ॥ १७७ ॥ भूभुजस्तत्र षाड्गुण्योपायशक्तित्रयादयः । फलन्ति चिन्तितैरथैः साक्षात्कल्पद्रुमा इव ॥ १७८ ॥ कदाचिद्भुतारा कदाचित् सिंधुरोधसि । कदाचित् केलिशैलेषु कदाचिचित्रसद्मसु ॥ १७९ ॥ कदाचिद्वमितोल्लास हल्ली कविगाहने । कदाचित् किन्नरीतारगीताकर्णन कौतुके ॥ १८० ॥ कदाचिदुपदाऽऽयातनटीघटितनाटके । जीहांगीर नृपस्तस्थावित्थं खर्गे हरिर्यथा ॥ १८९ ॥ - त्रिभिर्विशेषकम् ।
+
ॐ
*
अथ श्रीवाचकोसंसाः सिद्धिचन्द्रैः समन्विताः । त्रयोविंशति वर्षान्ते मुदा विज्ञप्प तं नृपम् ॥ १८२ ॥ तत्तद्रामसमायाता संघसामन्तसत्कृताः । क्रमादहम्मदाबादं भूषयाचकिरे तराम् ॥ १८३ ॥ युग्मम् । म्बावत्यां पुनर्मत्वा श्रीसूरींस्तन्निर्देशतः । आगत्याहम्मदाबाद ते चतुर्मासकं व्यधुः ॥ १८४ ॥ स्वोपाश्रये सिद्धिचन्द्रैः समानीतेन सादरम् । विक्रमार्काभिधानेन तद्देशखामिना ततः ॥ १८५ ॥ पूजा व्यधागि समवसृतौ श्रीमज्जिनेशितुः । अमारिषटहोद्घोषः सर्वत्रापि च दापितः ।। १८६ ॥ ततश्च गुरुनिर्देशात् पर्जन्याबस्थिति पुनः । निर्माय श्रीमहीशानपुरे पसनमाययुः ॥ १८७ ॥
३९
5
10
15
20
25
30