________________
४०
5
10
15
20
25
30
श्री भानुचन्द्रगणिचरित
तत्र चात्यन्तमौन्नत्यं संवीक्ष्योत्पन्नमत्सराः । श्रीमद्विजयदेवाख्यसूरीणां सुमहात्मनाम् ॥ १८८ ॥ एकीभूयान्यगच्छीयसूरिभिर्भूरिभिः सह । तैः समं पण्डितंमन्यतया वादं विधित्सवः ॥ १८९ ॥ स्थिताः खरतरा द्रङ्गगोपुरे सपरिच्छदाः । वादार्थमन्यगच्छीयैराचार्यास्तानजूहवन् ॥ १९० ॥–त्रिभिर्विशेषकम् । ततस्ते सिद्धिचन्द्रांस्तान् मत्वा वादविधौ क्षमान् । प्रचेलुः सार्द्धमादाय विद्वद्वृन्दसमन्विताः ॥ १९१ ॥ तत्र गत्वा विदित्वा च प्रोद्धतान् प्रतिवादिनः । वादं विधातुं तैः सार्द्धं सिद्धिचन्द्रान् समादिशन् ॥ १९२ ॥ तथा तैर्निर्जितास्ते च तर्ककर्कशयुक्तिभिः । आसन् समक्षं सभ्यानां कृतमौनव्रता इव ॥ १९३ ॥ वीक्षापन्ना भृशं सभ्यैर्न्यत्कृताश्च मुहुर्मुहुः । उत्थाय प्रययुः फालभ्रष्टा इव वनौकसः ॥ १९४ ॥ ततः श्रीमदनूचानाः सन्महैः सपरिच्छदाः । खोपाश्रयमलंचक्रुस्तत्र लब्धजयश्रियः ॥ १९५ ॥ ततः कियद्दिनैस्तत्र श्राद्ध्या लाल्यभिधानया । आरब्धस्तीर्थकृद्विम्बप्रतिष्ठाया महोत्सवः ॥ १९६ ॥ नैकग्रामागतैः संधैस्तद्दिदृक्षासमुत्सुकैः । विस्तीर्णमपि संकीर्णमभवत् पत्तनं तदा ॥ १९७ ॥ जलयात्राक्षणेऽकस्मात् सादुल्लाभिधभूभुजा । कर्णेजपोक्तितश्चक्रे निर्देशस्तन्निषेधकृत् ॥ १९८ ॥ हाहारवस्तदा जज्ञे तद्दङ्गे रङ्गभङ्गतः । गतोऽपि लोको विज्ञस्यै तेन निर्भत्सितो भृशम् ॥ १९९ ॥ अनन्यगत्याऽनूचानैः प्रोचे श्रीवाचकान् प्रति ।
श्रीमद्भिरेव कर्त्तव्यं कृत्यं गत्वाऽन्यथा स्थितम् ॥ २०० ॥ तत्क्षणे सिद्धिचन्द्रास्ते तत्रागत्येत्यवादिषुः । कार्यमेतन्मया कार्यं न कार्यो मद्गुरोः श्रमः ॥ २०९ ॥ ततः श्रीमदनूचानैस्तथेत्युक्ते प्रहर्षितैः । सोत्साहास्ते समं सङ्घैर्जग्मुस्तन्नृपसद्मनि ॥ २०२ ॥ पूर्वसंस्तवतो द्वारि धारिता नैव वेत्रिभिः । गत्वा चोपाविशन मीर्यासादुल्लानृपसन्निधौ ॥ २०३ ॥ 'किमुद्दिश्यागता यूयमित्युक्तास्ते तमभ्यधुः । 'श्रेयःकृत्ये किमारब्धो विघ्नः श्रीमद्भिरीदृशः ॥ २०४ ॥