________________
चतुर्थ प्रकाश आवयोः प्रीतिविच्छेदनिदानं तत् त्वया कृतम्।। सोऽपि तैरित्युपालब्धो लज्जानम्रो मनागभूत् ॥ २०५ ॥ बत 'किं वः प्रियं कुर्यामि'त्युक्ते ते च तं जगुः । 'आगत्योपाश्रये पूर्व प्रीणयित्वा च मद्गुरून् ॥ २०६॥ द्वेधापि श्रीफलं ग्राह्यं जलयात्रामहोत्सवे'। तत् तदुक्तमुरीकृत्य तथैव कृतवान् पुनः ।। २०७॥ मनोरथतरुः सम्यग्दृशामासीत् फलेपहिः । तदावकेशी तद्विघ्नकृतां मिथ्यादृशां पुनः ॥ २०८॥ वटपद्रेऽथ गन्धारे कृत्वा ज्येष्टस्थितिं पुनः। वाचकास्ते चतुर्मासीमासीनाः पत्तनेऽन्यदा ॥ २०९॥ इतः शाहेः स्फुरन्मानं श्रीराजनगरे तदा।। अगात् श्रीमजिहांगीर(रि?) कुलीखानस्य रक्षितुः॥ २१०॥ 'सिद्धिचन्द्रैः समेताः श्रीभानुचन्द्रा मदन्तिके । प्रेष्या' इति तदन्तःस्थं प्रमेयमवबुध्य सः॥ २११॥ स्थितांस्तान् पत्तने ज्ञात्वा प्रेष्य स्खीयाङ्गरक्षकम् । तत्र : माधवदासाख्यं ससत्कारमजूहवत् ॥ २१२ ॥ आगत्याहम्मदाबादं मिलित्वा तं नृपं पुनः।। सिद्धिचन्द्रान सहादाय वाचकेन्द्राः प्रतस्थिरे ॥ २१३ ॥ प्रयाणक्रमतस्ते च मेदिनीद्रंगमागमन् । तत्र सप्रत्ययं पाच फलवद्धौं ववन्दिरे ॥ २१४ ॥ आचार्यायैः खरतरैस्तत्तीर्थ कर्तुमात्मसात् । तद्देशाध्यक्षसांनिध्यात् प्रारब्धो विग्रहस्तदा ॥२१५ ॥ पश्चषान् दिवसांस्तत्र स्थित्वा ते सौवशक्तितः। तत्तीर्थमात्मसात्कृत्वा प्रचेलुः पुनरग्रतः ॥ २१६ ॥ प्रतिग्राम प्रतिद्रङ्ग कुर्वन्तः शासनोन्नतिम् । उग्रसेनपुरं प्रापुः पुनश्चित्रावहैर्महैः ॥ २१७ ॥ आगतौ श्रीभानुचन्द्र-सिद्धिचन्द्रौ यहि स्थितौ । रामदासादिति श्रुत्वा श्रीशाहिस्तावजूहवत् ॥ २१८ ॥ मूर्तिमन्ताविवावेक्ष्य पुष्पदन्ताविमौ पुनः। प्रामोमोदीन् मेदिनीमान् अत्यन्तं च व्यसेष्मयीत् ॥ २१९॥
30
१मिरया समसदीनापरनाम्नः।-टिप्पणी। २ फलवर्द्धिप्रामे ।-टिप्पणी।
भा.