Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 158
________________ चतुर्थ प्रकाश जगत्का कृतं सर्वमस्माकं भुक्तिहेतवे । तन्निर्देशं प्रकुर्वाणा अग्रेऽपि सुखिनो वयम् ॥ २९६ ॥ इहापि दुःखिनो यूयं परत्रापि च दुःखिनः । भवितास्थेश्वरप्रोक्तमार्गातिक्रमतत्पराः' ॥ २९७ ॥ इति यौक्तिकमाकर्ण्य सुरत्राणोदितं वचः। ते पुनधैर्यमालम्ब्याविलम्बनोत्तरं ददुः॥ २९८ ॥ 'आदिष्टं सत्यमेवैतत् प्रियं च प्रभुभिः परम् । रक्तानां क्षोभयेच्चित्तं विरक्तानां तु न कचित् ॥ २९९ ॥ इति व्याहृतिमाकर्ण्य धीधनस्याथ भृधनः। स्फारविद्वच्चमत्काररचनं वचनं जगौ ॥ ३०० ॥ 'मन एव मनुष्याणां प्रमाणं पुण्यपापयोः। मनो विना विधाने च न काचिनियमक्षतिः॥ ३०१॥ अत्रापि कश्चिद्दोषश्चेत् प्रायश्चित्तेन तं पुनः । निराकुर्याल्लङ्घनोत्थं कार्य पथ्यादनादिव ॥ ३०२॥ उत्सर्गश्चापवादश्च यतिधर्मेऽप्युभौ स्मृतौ। सर्वैरपि यतः सार्वैस्तदैकान्तग्रहो मुधा ॥ ३०३ ॥ किञ्चस्याद्वाद एव सर्वत्र युक्तः स्याद्वादवादिनाम् । तेषामेकान्तवादस्तु मिथ्यात्वमिति गीयते ॥ ३०४॥ त्यक्त्वा कदाग्रहं धीमन् ! उरीकृत्य च मद्वचः। यथेच्छं भुक्ष्व सौख्यानि मुह्येत् कः स्वहिते सुधीः? ॥ ३०५॥ युक्त्या साक्षेपमित्युक्तेऽर्हन्मतज्ञेन शाहिना । प्रोचिरे निष्प्रकम्पास्ते स्वीयधमैकचेतसः ॥ ३०६ ॥ 'वाच्यमेतद्धि निखिलं कातरं पुरुष प्रति । न प्राणान्तेऽप्यतिचरेद् धर्म धीरः पुनर्मनाक् ॥ ३०७ ॥ अत्यल्पादयतीचाराद् धर्मस्यासारतैव हि । अंहिकण्टकमात्रेण पुमान् पङ्गेयते न किम् ॥ ३०८ ॥ यच्छुद्ध्यै क्रियते प्रायश्चित्तं तत् त्याज्यमादितः। प्रक्षालनीयो यस्तस्य पङ्कस्यास्पर्शनं वरम् ॥ ३०९॥ उत्सर्गमार्गेऽशक्तस्यापवादः प्रतिपाद्यते । अपवादोऽपवादाय शक्तस्य तु सुनिश्चितम् ॥ ३१ ॥ स्याद्वादोऽपि न निर्दिष्टः पापकृत्ये कृतात्मभिः। स्याद्वादस्यापि नैकान्तवादः स्याद्वादिनां मतः ॥ ३११॥

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180