________________
प्रथम प्रकाश
आगत्योपाश्रये तत्र स्थित्वा स्वल्पदिनानि सः। ततः प्रतस्थे सूरीशः पूर्वाद्रेरिव भानुमान् ॥ १०५ ॥ श्राद्धवगैः प्रतिग्रामकृतमावेशिकोत्सवः। श्रीहीरः पावनीचके क्रमात् फत्तेपुरं पुरम् ॥ १०६ ॥ अनेकवाद्यनिर्घोषबधिरीकृतदिङ्मुखः। श्रीसंघः स्थानसिंहाद्यः सर्वः संमुखमीयिवान् ॥ १०७ ॥ नमस्कृत्य कणेहत्य क्रमं तद्देशनारसैः। गाङ्गेयरूप्यमुद्राभिरङ्गपूजां व्यधाच सः॥ १०८ ॥ तत्तत्तदङ्गविन्यस्तं वर्णमुद्रामिषात् किमु ।। श्रीगुरुन् सेवयांचके खर्ण तत्कान्तिकावया ॥ १०९॥ स्थापितास्तन्नवाङ्गेषु तारमुद्राश्च रेजिरे।
तारास्तद्दम्भतः किं तवक्त्रचन्द्रं निषेविरे ॥ ११०॥ • ६७. शाहिअकबर-हीरसूरिसम्मिलनवर्णनम् ।
तस्मिन्नेव दिने प्रीतिपूर्वकं शाहिना समम् । पूर्वोक्तसचिवद्वारा मिलितास्ते महौजसः॥१११॥ हर्षोत्कर्षोल्लसत्वान्तवक्त्री तत्रैव विष्टरे।। पुष्पदन्ताविवैकत्र तावुभावपि तस्थतुः ॥ ११२ ॥ धर्म पप्रच्छ भूभर्ता खागतप्रभपूर्वकम् । सर्वोत्कृष्टतमं ते च दयामूलं तमभ्यधुः ॥ ११३ ॥ अत्यन्तमृगयासक्तमनसोऽपि महीपतेः। तदाकोभवत्तस्य कृपया कोमलं मनः ॥ ११४ ॥ कारं कारं नमस्कारं दर्श दर्श च दर्शनम् । मारं स्मारं गुणग्रामं वारं वारं नृपोऽवदत् ॥ ११५॥ अहो! प्रादुरभूद्भाग्यमहो! वृष्टिरभ(रन ?)भ्रभूः। लोचनाभ्यां यदद्य त्वं दृष्टः शिष्टशिरोमणिः ॥ ११६ ॥ भूलोके भोगिलोके च खोके स न कश्चन । येनोपमीयसे तेन त्वमेव त्वन्निदर्शनम् ॥ ११७॥ भूमान भूयोऽप्यभाषिष्ट तद्गुणान् वीक्ष्य विस्मितः। श्रीमद्भ्यः किं निरीहेभ्यो दातुमौचित्यमश्चति ॥ ११८॥ ततोऽस्मदीयसौधेऽस्ति जैनराद्धान्तपुस्तकम् । ऊरीकृत्य तदस्माकं विधेयोऽनुग्रहो महान् ॥ ११९॥ इत्युदीरितमाकये सकर्णगण केसरी ।
तत् समादाय तत्रैव चित्कोशीकृत्य मुक्तवान् ॥ १२०॥ भा.२