________________
5
10
15
20
१०
श्री भानुचन्द्रगणिचरित
पुनः प्रोचे पुरस्तस्य भूजानिर्भूभृतां वरः । यदिष्टं भवतामस्मद् गृह्यतामनुगृह्य नः ॥ १२१ ॥ प्रभुः पर्युषणापर्वदिनान्यष्टौ विशिष्टधीः । अहिंसां सर्वजन्तूनां ययाचे भूमरुत्वतः ॥ १२२ ॥ ततः प्रशान्तमूर्त्तित्व-निःस्पृहत्वादिरञ्जितः । तान्यहानि ददौ तस्मै चतुरभ्यधिकानि सः ॥ १२३ ॥ श्रीशाहेर्मिलने लाभो गुरूणां योऽभवत् तदा । अनेकाभी रसज्ञाभिः शक्यो वर्णयितुं न सः ॥ १२४ ॥ वर्षाश्चतस्रस्तद्देशे प्रविधाय प्रतस्थिरे । शान्तिचन्द्रमुपाध्यायं तत्र मुक्त्वाऽथ सूरयः ॥ १२५ ॥ बोधयन्तः प्रतिग्रामं भव्यलोकांश्च भूरिशः । गुर्जरं पावनीचक्रुः क्रमात् श्रीहीरसूरयः ॥ १२६ ॥ प्रतापाक्रान्तदिक्चक्रो भूशक्रः शक्रविक्रमः । अगात् तद्गमनादर्वाक शाहिल भपुरं पुनः ॥ १२७ ॥ सुरेर्भूघनबोधनादिचरितप्रोद्भूतकीर्त्तिप्रथां
प्रीत्याsssर्ण्य शिरो विघूर्णनपरे जातेऽखिले विष्टपे । श्रोतुं सोत्सुकमानसो दशशतीमक्ष्णामिवाखण्डलः कर्णानाममरावतीविरचितावासाद्वृणीते विधेः ॥ १२८ ॥
॥ इत्युपाध्यायश्रीसिद्धिचन्द्रगणिविरचिते श्रीशत्रुञ्जयादिसमस्ततीर्थकरमोचनाद्यनेकसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिप्रभावक पुरुषचरिते नगरनृपसचिवभट्टारकश्रीहीरविजयसूरि श्री शाहिमिलनधर्मगोष्ठीकरणद्वादशदिव सामारिस्फुरन्मानप्रदानश्रीगुरुगूर्जरागमनादिवर्णनो नाम प्रथमः प्रकाशः ॥ १ ॥