________________
द्वितीय प्रकाश
॥ द्वितीयः प्रकाशः॥ इतश्च-कोऽपि मेधाविमूर्द्धन्यो लुम्पाकानां मतेऽभवत् ।
श्रीहानर्षिरिति ख्यातो नाम्नाऽमेध्ये मणिर्यथा ॥१॥ सिद्धान्तानेष निध्याय कदाचिचित्तचक्षुषा । प्रतिमामाहती चित्रवल्लीं चाष इवैक्षत ॥२॥ लुम्पाकानां मतात्तस्मादिव कारानिकेतनात् । निर्गन्तुं कामयामास स हानर्षिमुनिस्ततः ॥ ३ ॥ तन्मताधिकृतान् वेषधरान् वागुरिकानिव । पाशे पातयतो मुग्धान् मृगानिव विवेद सः॥४॥ अमी वीडां प्रकुर्वन्ति बका इव शनैः शनैः।। सतां सम्यग्दृशो हन्तुं कासतः शफरीरिव ॥५॥ विगोपनमिवैतेषां वेषं वेषभृतामवैत् । तन्मतस्थं पुनमैने सोऽन्धकूपगतं निजम् ॥६॥ आप्तोक्तिरत्नगर्भायाममीषां प्रतिमाहताम् । निधिकुम्भीव दुःस्थानां पथिकी नाभवदृशोः ॥७॥ ऐहिकामुष्मिके सौख्ये दूरेऽत्र स्थायिनो म[म]। नीरतीरे सरःपके निमग्नस्येव दन्तिनः ॥ ८॥ स पल्वलमिवामेध्यं हंसो लुम्पाकपुङ्गवः। अत्याक्षीत् पक्षमात्मीयं समं शिष्यैः परःशतैः॥९॥ लक्ष्मीलीलाललामं स तपापक्षमशिश्रियत् । प्राणमत् प्रतिमां जैनी जयी राजेव मातरम् ॥१०॥ तस्य निःशेषशिष्येषु चूडारत्नसमप्रभः । अभूत् सकलचन्द्राख्यः श्रीवाचकपुरन्दरः॥११॥ कृतोद्वाहार्थसामग्रीमप्यायोज्य व्रतोत्सवे । वैराग्यादग्रहीद्दीक्षां सः श्रीजम्बुकुमारवत् ॥१२॥ निपीय भारतीर्यस्य नाद्रियन्ते बुधाः सुधाम् ।। . तेनाङ्कयाजतश्चन्द्रे संजातः शैवलोदयः॥१३॥ मावर्त्तत यतः सप्तदशभेदजिनार्चनम् । जाह्नवीव हिमप्रस्थाजगत्कर्तुरिव प्रजा ॥ १४ ॥ प्रतिद्रङ्गं प्रतिग्राम प्रतिपर्वोत्सवं च यत् । कर्तुः कीर्तिरिवाद्यापि जनैः सर्वत्र गीयते ॥१५॥ निःशेषशेमुषीमुख्याः शिष्या विख्यातकीर्तयः। बभूवुः शतशस्तस्य हिमाद्रेरिव सूनवः ॥ १६ ॥