________________
श्रीभानुचन्द्रगणिचरित तेषां श्रीसूरचन्द्र-श्रीशान्तिचन्द्राभिधौ पुनः । मुख्यौ बभूवतुः शिष्यो ज्योतिषां पुष्पदन्तवत् ॥ १७ ॥ सहस्रार्चिरिवादर्शि सूरचन्द्रस्तु सूरिभिः। नियों धीगुणैर्युक्तं धिकचक्रे द्वादशार्चिषम् ॥ १८ ॥ विभाव्य प्रतिभां यस्य सर्वशास्त्रावगाहिनीम्। प्राप्तरूपैरिति प्रोचे किमियं कृष्णभारती ॥१९॥ वादार्थ वादिनोऽनेके यत्समीपमुपस्थिताः। न वक्तुमपि शक्तास्ते कृतमौनव्रता इव ॥२०॥ विस्मयोत्पादिकैः पचैरपि सद्यो विनिर्मितः। यः सुधीः पण्डितंमन्यैर्विवादं वादिभिर्व्यधात् ॥२१॥ भानुचन्द्राभिधस्तस्य शिष्यः सौभाग्यभाग्यभूः । अभूदन्तिषदां मुख्यः खर्नाथः खर्गिणामिव ॥ २२॥ सोऽनवद्यास्ततो विद्याः माधीते गुरुसन्निधौ । हार्द तासां च जग्राहाभिज्ञवन्मुग्धचेतसाम् ॥ २३ ॥ स्फुरत्कलिन्दिकावल्लीमुन्मदिष्णुकुवादिनः। जयन् यः सफलीचक्रे वर्षन्निव घनाघनः ॥२४॥ तदा तदाननज्योत्लानाथे लवणिमामृतम् । चकोरेणेव पिवता नढते गुरुचक्षुषा ॥२५॥ प्रीतिवापीपयःपूराप्लवनैः पुलकाङ्किताः। ददुः 'प्राज्ञ'पदं तस्य श्रीहीरगुरवः खयम् ॥ २६ ॥ कलौ खकामिताप्राप्ते लोकानालोक्य सीदतः। पूर्णकामांश्चिकीर्षुस्तान स्वःसुरगुमिवागतम् ॥ २७ ॥ खोदयाय कलिं लुप्त्वा किमु कर्तुं कृतं युगम् । नक्तं दिनमिवादित्यं धर्म मूर्तमिवोद्गतम् ॥ २८ ॥ चतुर्थारकवल्लोकान् पञ्चमेऽप्यारकेऽथवा । अवतीर्णमिवोद्ध कृपया गौतमं पुनः ॥ २९॥ तपगच्छश्रिया लीलाललाममिव जङ्गमम् । यं सर्वोऽपि जनः लेहादैषीदेष निषेवितुम् ॥ ३० ॥-चतुर्भिः कलापकं ॥ वचनागोचरागण्यभाग्यसौभाग्यसेवधिः। दीक्षयामासिवानेषोऽनेकानिभ्यतनूभवान् ॥ ३१॥ द्विषां भानुरिवासद्यः सतां सौम्यस्तु चन्द्रवत् । इति सान्वर्थनामानं भानुचन्द्राभिधं बुधम् ॥ ३२॥ शासनोन्नतिरेतस्माद्भाविनीति विभाव्य तम् । प्रेषीदकब्धरक्ष्मापसन्निधौ हीरसूरिराट् ॥ ३३ ॥-युम्मम् ॥