________________
श्रीभानुचन्द्रगणिचरित दीप्तिमन्तो भृशं यस्य राजन्ते दशनास्तताः। खतोद्गतशुभध्यानवृक्षस्य प्रसवा इव ॥ ८९॥ विभान्ति यच्छिरोदेशे पलितालकपतयः।। राहुभीत्येव शरणागता इव शशित्विषः॥९॥ यद्रोि वीक्ष्य माधुर्यमतिशायि सितोपला।
लब्रयेवाविशकाचघटींसंक्षिप्तविग्रहा ॥ ९१॥ दृश्यते साम्प्रतं यस्मिन् निःस्पृहत्वमलौकिकम् । न जातुचिद्दीयमानं धनं गृह्णाति कस्यचित् ॥ ९२॥ भव्याम्भोरुहसन्दोहविबोधनदिवाकरः। वैराग्यरसपाथोधिसमुल्लासनचन्द्रमाः॥ ९३ ॥ अत्युग्रतपसां धाम ध्यानासक्तमनाः सदा।। भैक्ष्यमात्रोपजीवी च ब्रह्मचारी महामुनिः ॥ ९४ ॥ इत्थं श्रीगूर्जरायातसामन्तादिजनोदितम् ।
श्रीहीरसूरेराकर्ण्य परभागं विशांपतिः ॥ ९५ ॥ 15६६. अकब्बरकृतहीरसूरेराकारणम् ।
स्फुरन्मानं ततः प्रेषीत्तेषामाहूतिहेतवे। श्रीमत्साहिबखानस्य गूर्जरेशस्य शाहिराट् ॥ ९६ ॥ क्रमेण तत्क्रमाम्भोजे तस्मिन् हंस इवागते । सम्यक् खान्ते तदन्तःस्थं प्रमेयं प्रविभाव्य च ॥ ९७ ॥ श्राद्धान् वृद्धानथापृच्छय राजद्रगनिवासिनः। गुरूनाजूहवत्सोऽपि ततो गन्धारबन्दिरात् ॥९८॥ आकर्ष्याकारणं शाहेः प्रतस्थे श्रीगुरुस्ततः। जाचिकैः शकुनैः सानुकूलैः सूचितवैभवः ॥ ९९ ॥ क्रमादहम्मदावादपुरे सूरिः समीयिवान् । . नभोनीरधिवर्णिन्याः प्रतीरे सुप्रतीकवत् ॥१०॥ प्रीतिप्रहः प्रभुस्तत्र परिवत्रे व्रतिव्रजैः। . सुनासीर इवास्थानीमासीनः स्वर्गिणां गणैः ॥१०१॥ प्रबोधयन् सुहकपद्मान् कुहकपङ्कांश्च शोषयन् । स्पर्द्धयेव रवेः सूरेः प्रतापो व्यानशे दिशः॥१०२॥ प्रातस्तत्रत्यसङ्घन सार्द्धमुन्नतिपूर्वकम् । समं साहिबखानेन सुहृद्गोष्ठी व्यधागुरुः ॥ १०३ ॥ भृशमभ्यर्थ्यमानोऽपि तेन यानादिवस्तुभिः। तदीयं नाग्रहीत् किञ्चिनिःस्पृहा मुनयो यतः॥ १०४ ॥
20
25