Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 138
________________ तृतीय प्रकाश केनाप्यकृतपूर्वं तन् महत् कार्यमभूद्यतः । अतः श्रीहीरसूरीणां नाम्नैवालेखयन् स्वयम् ॥ ६७ ॥ तत्समक्षं लिपीकृत्य तत् प्रदर्य महीभुजे। तन्मुद्रां कारयित्वा च तेषामर्पितवांश्च सः॥ ६८॥ तैः पुनस्तन्नृपादिष्टपुरुषैः प्रेषितं गुरोः। आचन्द्राकं चिरस्थायि सर्वत्र खं यशः पुनः ॥ ६९॥ स्फुरन्मानाप्तसन्मानास्ततः श्रीहीरसूरयः। नैकदेशागतैः सङ्घस्तीर्थयात्रां प्रचक्रिरे ॥ ७० ॥ सर्वेषामपि जैनानां तत्र यात्रार्थमीयुषाम् । ततःप्रभृति सिद्धाद्रौ करमुक्तिः प्रवर्तते ॥ ७१॥ अथ प्रतस्थे पृथ्वीशो यानपात्रैर्यदृच्छया । कलहंस इवैतस्मात् कासाराच विनिर्ययौ ॥ ७२ ॥ ततः स्वसैनिकैरेकपदे प्राप्त रराज सः , नक्षत्रैर्युगपत्प्राप्तैरिव नक्षत्रनायकः ॥ ७३ ॥ पश्यन् काश्मीरकेदारान् विस्मेरान् विस्मयावहान् । शनैः शनै रोहितासाभिधं दुर्गमियाय सः ॥ ७४ ॥ अविच्छिन्नप्रयाणैश्च सर्वत्राज्ञां प्रवर्तयन् । क्रमात् शाहिरलंचक्रे पुरं लाभपुराभिधम् ॥ ७५ ॥ पराक्रमाक्रान्तसमस्तशत्रुक्ष्माशचक्रः क्षितिपालशकः। एकातपत्रां वुभुजे धरित्रीमकब्बरो बर्बरवंशहंसः ॥ ७६ ॥ ॥ इति महोपाध्यायश्रीसिद्धिचन्द्रगणिविरचिते श्रीशत्रुञ्जयादिसमस्ततीर्थकरमोचनाद्यनेकसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिप्रभावकपुरुषचरिते पातिशाहिअकबरजलालदीन कश्मीरदेशगमन-नानाश्चर्यविलोकन-श्रीशत्रुञ्जयतीर्थकर. मोचनादिवर्णनो नाम तृतीयः प्रकाशः ॥ ३ ॥

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180