________________
तृतीय प्रकाश
केनाप्यकृतपूर्वं तन् महत् कार्यमभूद्यतः । अतः श्रीहीरसूरीणां नाम्नैवालेखयन् स्वयम् ॥ ६७ ॥ तत्समक्षं लिपीकृत्य तत् प्रदर्य महीभुजे। तन्मुद्रां कारयित्वा च तेषामर्पितवांश्च सः॥ ६८॥ तैः पुनस्तन्नृपादिष्टपुरुषैः प्रेषितं गुरोः। आचन्द्राकं चिरस्थायि सर्वत्र खं यशः पुनः ॥ ६९॥ स्फुरन्मानाप्तसन्मानास्ततः श्रीहीरसूरयः। नैकदेशागतैः सङ्घस्तीर्थयात्रां प्रचक्रिरे ॥ ७० ॥ सर्वेषामपि जैनानां तत्र यात्रार्थमीयुषाम् । ततःप्रभृति सिद्धाद्रौ करमुक्तिः प्रवर्तते ॥ ७१॥ अथ प्रतस्थे पृथ्वीशो यानपात्रैर्यदृच्छया । कलहंस इवैतस्मात् कासाराच विनिर्ययौ ॥ ७२ ॥ ततः स्वसैनिकैरेकपदे प्राप्त रराज सः , नक्षत्रैर्युगपत्प्राप्तैरिव नक्षत्रनायकः ॥ ७३ ॥ पश्यन् काश्मीरकेदारान् विस्मेरान् विस्मयावहान् । शनैः शनै रोहितासाभिधं दुर्गमियाय सः ॥ ७४ ॥ अविच्छिन्नप्रयाणैश्च सर्वत्राज्ञां प्रवर्तयन् ।
क्रमात् शाहिरलंचक्रे पुरं लाभपुराभिधम् ॥ ७५ ॥ पराक्रमाक्रान्तसमस्तशत्रुक्ष्माशचक्रः क्षितिपालशकः।
एकातपत्रां वुभुजे धरित्रीमकब्बरो बर्बरवंशहंसः ॥ ७६ ॥ ॥ इति महोपाध्यायश्रीसिद्धिचन्द्रगणिविरचिते श्रीशत्रुञ्जयादिसमस्ततीर्थकरमोचनाद्यनेकसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिप्रभावकपुरुषचरिते पातिशाहिअकबरजलालदीन
कश्मीरदेशगमन-नानाश्चर्यविलोकन-श्रीशत्रुञ्जयतीर्थकर. मोचनादिवर्णनो नाम तृतीयः प्रकाशः ॥ ३ ॥