________________
२८
श्रीभानुचन्द्रगणिचरित ॥ चतुर्थः प्रकाशः॥
अथान्येद्युः सभासीनः श्रीमान् शाहिः शुभाशयः। श्राद्धं दुर्जनशल्याख्यं समाहूयेदमब्रवीत् ॥१॥ सर्वाङ्गीणगुणग्रामभाग्यसौभाग्यशालिना। श्रीहीरसूरिणा पट्टे स्वकीये स्थापितोऽस्ति कः ॥२॥ सोऽवादीदुग्रवैराग्यसेवधिर्विजितेन्द्रियः। कामप्रदोऽपि निष्कामः सगुणोऽप्यगुणस्तथा ॥ ३ ॥ अश्राद्धोऽपि च सश्राद्धः सत्सङ्गरोऽप्यसङ्गरः। सूरिविजयसेनाख्यस्तत्पट्टे राजतेऽधुना ॥४॥ एतत्तदुक्तमाकर्ण्य हर्षोल्लसितमानसः। तदाहूतिकृते शाहिः स्फुरन्मानमलीलिखत् ॥५॥ प्रादात् श्रीभानुचन्द्राणां स्फुरन्मानं प्रगे प्रमुः। प्रेष्यं विजयसेनाख्यसूरेरित्युक्तिपूर्वकम् ॥६॥ शाहिविज्ञापिलप्रेष्यपाणिना प्रहितं च तत् । तत्प्रात्यनन्तरं तेऽपि चलनोपक्रमं व्यधुः ॥७॥ विहगैर्वर्द्धितोत्साहैस्तत्पुरात् ते प्रतस्थिरे । सार्द्ध परःशतैः शिष्यैः करीन्द्राः कलभैरिव ॥८॥ ववृधे बजतां तेषां प्रतापः प्रतिपत्तनम् । प्रतिमण्डलमुष्णांशोरिवोदीची प्रसर्पतः ॥९॥ पदे पदे च श्रीसङ्घदीयमानधनोत्करैः। यदुपास्तिकृतोऽभूवन् याचका अप्ययाचकाः॥१०॥ गान्धर्वैर्वाद्यमानानामातोद्यानां पथि खनैः। नादानुविद्धसारङ्ग इवोत्कर्णो जनोऽभवत् ॥११॥ तद्देशनासुधापानविधानाजज्ञिरे जनाः। उत्तीर्णात्यन्तमिथ्यात्वगरलाः सरलाः पथि ॥१२॥ इत्थं यथेष्टं ते लाभमजयन्तः पथि क्रमात् । श्रीमल्लाभपुरोपान्तं प्रापुः सूरिपुरन्दराः॥ १३ ॥ सुरत्राणैरनुज्ञाताः शेखसैन्यसमन्विताः। अभ्येत्यानंसिषुः सूरीन् भानुचन्द्राख्यवाचकाः ॥ १४ ॥ सूरयः शाहिना साकं हर्षोत्कर्षादमीमिलन् । सद्गुणै रञ्जितस्तेषां सोऽपि सत्कृतिमातनोत् ॥ १५॥
20
.