________________
चतुर्थ प्रकाश
ततस्ते तदनुज्ञाता महामहपुरःसरम् । प्रतिश्रयमलंचक्रुर्मराल इव मानसम् ॥ १६ ॥ ततः श्रीवाचकद्वारा मिलिताः शाहिना समम् । तेषामन्तिषदां मुख्याः श्रीनंदिविजयाः पुनः॥ १७ ॥ अवधानकलां तेषां वीक्ष्य विश्वम्भरापतिः।। विस्मितः 'खु स्फ ह मेति तदा तन्नाम निर्ममे ॥ १८ ॥ ततोऽसहिष्णुभिस्तेषां विप्रेर्माहात्म्यमद्भुतम् । रामदासमहाराजद्वारेति ज्ञापितं प्रभोः ॥ १९॥ वेदबाह्या इमे नैवोपासकाः परमात्मनः । जातुचिन्नैव कुर्वन्ति प्रणिपातं प्रभोरपि ॥ २० ॥ तन्निशम्य सुरत्राणः क्रोधामणितलोचनः । सर्व साक्षेपमप्राक्षीत् सूरीनाहूय तत्पुनः ॥ २१ ॥ तन्निशम्योत्तरं श्रीमत्सूरयस्तमवादिषुः। मन्यामहे वयं सर्वे स्पर्द्धयेति वदन्त्यमी ॥ २२ ॥ भट्टाचार्यः प्रभोरेवं तनिशम्य तदाऽवदत् । एभिः स्वीकृतमास्येन शास्त्रे त्वेषां न विद्यते ॥ २३ ॥ ततोऽभ्यर्णस्थितं शेखं पृथ्वीशः प्रोचिवानिति । युष्माभिरेव कर्तव्यो भट्टाचार्योक्तनिर्णयः॥ २४ ॥ अथ तानवदत् शेखो निविश्याऽऽस्थानमण्डपे । विचार्यतां समं विप्रैर्यदि वः संमतः शिवः ॥ २५॥ तर्काधीती ततस्तत्र गर्वप्रोन्नतकन्धरः। भट्टाचार्याभिधः पूर्व सूरीन पर्यनुयुतवान् ॥ २६ ॥ जगत्कर्तृत्वतोऽम्माभिः शिवः साध्यस्तदत्ययात् । युष्माभिरुच्यते काऽत्र युक्तिस्तत्राथ ते जगुः॥ २७ ॥ तारतम्यं विदः कापिं विश्रान्तं परिमाणवत् । नोचेत्तरतमध्वानवाच्यत्वं नोपपद्यते ॥ २८ ॥ अस्तीह कश्चित् पुरुषः सर्वभावोपदर्शकः। द्रष्टत्वतारतम्यस्य विश्रान्तेरीश्वरश्च सः ॥ २९ ॥ किश्च वः संमतं युक्तियुक्तं न प्रतिभासते। विचार्यमाणमीशस्य कर्तृत्वं जगतां यतः ॥ ३०॥ "धर्माधर्मों विना नाङ्गं विनाङ्गेन मुखं कुतः। मुखादिना न वक्तृत्वं तच्छास्तारः परे कथम् ॥ ३१ ॥ अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता। न च प्रयोजनं किञ्चित् स्वातन्यान्न पराज्ञया ॥ ३२॥