________________
श्रीभानुचन्द्रगणिचरित तद्दिदृक्षोत्सुकः सत्रा सामन्तैर्गुरुभिश्च सः। . यानपात्रस्थितस्तत्र प्रस्थितो वारिवर्मना ॥५०॥
अन्यः सैन्यजनः सर्वः प्राचालीत्तत्तटाध्वना। एकेनैव दिवा शाहिजैनलङ्कामुपागमत् ॥५१॥ स देशः सर्वदेशेषु प्रकृत्यैवास्ति शीतलः। । तत्रापि वर्तते पद्माकरस्त्वेष विशेषतः ॥५२॥ . यत्रावश्यमवश्यायवृष्टिरुच्चैः प्रजल्पतः। न चात्र संशयोऽद्राक्षं तामहं वहशा यतः॥५३॥ हिमान्युनेकतस्तेन भूधना अपि जज्ञिरे। तत्र सर्वेऽपि शीतार्ताः का कथा तु तपखिनाम् ॥ ५४॥ तदन्तःसौधमासाद्य भूपतिः सपरिच्छदः। नानाफलरसाखादेराददे जन्मनः फलम् ॥५५॥ अतिशैत्यवशात्प्रातः परिम्लानतरान् गुरून् । दर्श दर्श दृशा मापः सौवाभ्यर्णमजूहवत् ॥५६॥ सहासवचनोल्लेखैर्भूपतिस्तानभाषत । अन्यलेभे फलाखादः शीताखादस्तु वोऽभवत् ॥ ५७॥ प्रौढपर्षत्स्थिता [:] सूर्यनामाध्यापनतः परम् । लब्धलक्षास्तदा तं ते संप्राप्यावसरं जगुः ॥ ५८॥ जनाः सर्वेऽपि युष्माभिरर्थिनोऽप्यर्थिनः कृताः।
अहं चैकस्तथैवास्थां यन्नाप्तं किञ्चिदीहितम् ॥ ५९॥ यतः-त्वयि वर्षति पर्जन्य ! सर्वेऽपि पल्लविता द्रुमाः।
अस्माकमर्कपत्राणां पूर्वपत्रेऽपि संशयः ॥ ६॥ उत्तुङ्गो सरलतरू फलभरभारेण नमिअसव्वंगो। खुजो फलं न पावइ ता किं दोसो तरुवरस्स ॥ ६१ ॥ तन्निशम्यावदद्भूमान् वदान्यत्वेन लज्जितः। प्रार्थयध्वं यदिष्टं स्यात् तत् प्रयच्छाम्यहं पुनः ॥ ६२॥ त्यक्तसावद्ययोगानां भैक्ष्यमात्रोपजीविनाम् । नार्थः केनापि नः किन्तु शुल्कं तीर्थस्य मुच्यताम् ॥ ६३ ॥ द्रव्योपलब्धिमहती तत्रेत्युक्तवति प्रभौ। अवोचन गुरवस्त्वेतत् सर्वशुल्कपुरः कियत् ॥ ६४ ॥ विहस्येषत्ततः शेखधीसखं शाहिरादिशत् । पत्रं कृत्वाऽर्यतामेषां तत्तीर्थकरमुक्तिकृत् ॥ ६५॥ विज्ञप्तिं कृतवन्तस्ते यतः शाहेः पुनः पुनः। अतः स शेखस्तन्नाम्ना तल्लिपीकर्तुमुद्यतः ॥ ६६ ॥