________________
... तृतीय प्रकाश अथातर्कित एवासौ प्रतस्थे भूपतिस्ततः । तथैव गुरवश्वेलुस्तस्थुस्तत्रैव ते पुनः॥ ३४॥ पर्वतान् रत्नपञ्जाल-पीरपञ्जालसंज्ञितान् । बहूनुल्लङ्घयन्मार्गे प्राप श्रीनगरं प्रभुः ॥ ३५ ॥ आगतेऽर्कदिने प्रातस्तन्नामाध्यापनादनु । विज्ञप्तिविषयीचक्रुर्गुरवस्तं विशांपतिम् ॥ ३६॥ अस्ति शत्रुञ्जयस्तीर्थ देशे सौराष्ट्रनामनि । तद्यात्रां कर्तुमनसः सन्ति श्रीहीरसूरयः ॥ ३७॥ भागधेयस्तदध्याते प्रतिमानुषम् । प्रसद्य प्रीणनीयास्ते प्रभुभिस्तद्विमोचनात् ॥ ३८ ॥ श्रीगुरूक्तं तदाकर्ण्य समस्दीनेति विश्रुतम् । खानाजमसुतं ज्येष्ठं व्याजहारेति भूविभुः ॥ ३९ ॥ श्रीगुरी हीरसूरीन्द्रे तत्र यात्रार्थमागते । श्रद्धावतां न केषाश्चिद्राचं शुल्कमतः परम् ॥४०॥ मदुक्तोदन्तसंयुक्तं पत्रं सौवपितुस्त्वया । भानुचन्द्रमुनीन्द्राय लिपीकृत्य प्रदीयताम् ॥४१॥ इत्युक्त्वा तं गतः शाहिः शुद्धान्तं सोऽपि तत्क्षणात् । तल्लिखित्वा ददौ तेषां तैः पुनः प्रेषितं गुरोः॥४२॥ अथो खरतरैरीाभरैस्तत्क्षन्तुमक्षमैः। विभुर्विज्ञपयांचक्रे दीनैर्दीनतरैः खरैः॥४३॥ युष्मत्सेवैकचित्तानां नित्यमाशीविधायिनाम् । देव ! शत्रुञ्जयस्तीर्थ दीयतामनुगृह्य नः॥४४॥ कुत्रास्ति चूत तत्तीर्थमित्यूचे यावता नृपः। श्रीशेखस्तावताऽकस्मादित्याख्यदसमंजसम् ॥४५॥ भूरिशुल्कागमात्तत्र भूयान् लाभोऽस्ति भूभुजाम् । . तन्निशम्य विमृश्यान्तः किश्चिदित्याह तं नृपः॥ ४६॥ मुनीनामात्मनीनानां तत्र यात्रार्थमीयुषाम् । न ग्राह्यं शुल्कमित्युक्त्वा शाहिः शुद्धान्तमीयिवान् ॥ ४७ ॥ तत्तीर्थमात्मसात्कत्तुं प्रत्यहं गुरवस्ततः । प्रारेभिरे वरीवस्यां श्रीशेखस्य विशेषतः॥४८॥ अथ तत्रास्ति कासारः पारावार इवापरः। जैनलङ्काभिधः कश्चित्पश्चाशत्क्रोशविस्तृतः॥४९॥
भा०४