________________
२४
श्रीभानुचन्द्रगणिचरित प्रफुल्लैः पिञ्जरीभूतः कचित्कुङ्कुमभूरुहै। रक्तैरुद्यत्प्रतापैस्ते पिण्डीभूय स्थितैरिव ॥ १७॥ स्थाने स्थाने लसल्लक्ष्मीः प्रफुल्लैः पङ्कजवजैः। त्वन्मुखाम्भोरुहश्रीभिर्जितैस्तत्र स्थितैरिव ॥ १८॥ युष्मन्मुखमिव ब्रह्मपुत्र्या प्रत्यक्षमाश्रितः। देश एवायमाश्चर्यमयः सर्वोऽपि किं ब्रुवे ॥ १९॥-चतुर्भिः कलापकम् । तन्निशम्य स तचेता जज्ञे तद्दर्शनोत्सुकः। विशिष्य धीसखैः शेखमुख्यैरुत्साहितः पुनः ॥ २०॥ अथ प्रास्थानिके लग्ने कृतप्रस्थानमङ्गलः। चचाल क्षमापतिर्दिश्युत्तरस्यामुग्रशासनः ॥ २१ ॥ नेदुस्तदा रिपुप्राणप्रयाणपटहोपमाः। निःस्वाननिकराः शब्दैरुदरंभरयो दिशाम् ॥ २२ ॥ चेले समन्ततस्तेन सामन्तैश्च समं ततः। सितांशुनेव नक्षत्रैः स्फुरत्तेजोमयात्मभिः ॥ २३ ॥ अथ प्रतस्थे वेगेन हास्तिकं गर्जितोर्जितम्।। प्रत्यर्थिक्षितिभृत्तेजोदाववारिदमण्डलम् ॥ २४॥ संसिच्य मदपाथोभिः संवीक्ष्य श्रुतिमारुतैः। करिणः कम्पयामासुः शीतार्तामिव मेदिनीम् ॥ २५ ॥ मारुतस्य मुखे धूलिं क्षिपद्भिश्चरणोद्धताम् । तरङ्गैरिव पाथोधेस्तुरङ्ग(गै)श्वलितं तदा ॥२६॥ निजानाकारयन्तोऽथ कारयन्तो गतेर्जवम् । ध्वजाञ्चलैश्चलैश्चेलुः समेनैव पथा रथाः ॥ २७ ॥ प्रभुप्रदत्तसदृष्ये वसन्तः शेखसन्निधौ । अत्याग्रहवशात् शाहेगुरवोऽपि प्रतस्थिरे ॥ २८ ॥ स्थिरामस्थिरयद् वेगात् तच्चचाल बलं तदा। उद्यद्भलिभरैरब्धि गम्भीरमगभीरयत् ॥ २९ ॥ गाम्भीर्य दर्शयन्तोऽपि तदा सैन्यैः कदर्थिताः। तत्कालं कलयामासुः कलुषत्वं जलाशयाः ॥ ३०॥ क्रमेण भम्भरोपान्ते वीक्ष्य सैन्यं श्रमाकुलम् । दिनानि कतिचित्तस्थौ तद्विश्रान्तिकृते नृपः॥ ३१॥ विमलाद्रिमहातीर्थमात्मसात्कर्तुमुद्यतैः। कृताः खरतरैस्तत्रोपायाः प्रच्छन्नवृत्तिभिः ॥ ३२॥ ज्ञात्वा गुरुभिरप्येवं विज्ञप्तः शेखधीसखः। अस्माकं पुण्डरीकाख्यं तीर्थमेते जिघृक्षवः ॥ ३३ ॥
30