________________
तृतीय प्रकाश
॥ तृतीयः प्रकाशः॥
अथो यथाजनिष्ट श्रीसिद्धाद्रेः करमोचनम् । तथोच्यते यतो न स्यादायतौ संशयो नृणाम् ॥१॥ ज्ञानं विना परोदन्तः सम्यग् ज्ञातुं न शक्यते। जाह्नवीव यदेकोऽपि शतधा भिद्यते हि सः॥२॥ अन्यदोर्वीपतिः प्रातः पर्षदि प्रौढविक्रमः। बद्धमूर्द्धाञ्जलिक्ष्मापसहस्रैः सेवितक्रमः॥३॥ मौक्तिकश्रेणियुक्तेन सितच्छत्रेण शोभितः। शशिनेव सपर्यार्थमागतेन समं ग्रहैः॥४॥ चलैश्चन्द्रोज्वलैश्चारुचामरैः कृतविभ्रमः। जाह्नवीयैरिवाजिह्मैः प्रवाहैस्तुहिनाचलः ॥५॥ अदूष्यदूष्यभृन्मुक्तदूषणः स्फारभूषणः । सुरेन्द्र इव शैलेन्द्र सिंहासनमशिश्रियत् ॥ ६॥-चतुर्भिः कलापकम् । इतः सप्रश्रयं द्वाःस्थ इति प्रण्यगदन्नृपम् । कश्मीरादागतं कश्चिद् द्वारि तिष्ठति वारितः॥७॥ आदिदेश विशामीशो मुच्यतां मुच्यतां हि सः। अथोत्सुक्यादगादेष सहर्षः पर्षदन्तरे ॥८॥ स सभान्तः सभासद्भिः कचिन्नीलाश्मकुहिमे । जलभीत्योद्धरन वासः सहासमवलोकितः॥९॥ ____आकाशस्फटिकस्तम्भस्खलितांगतया कचित् । अन्यत्रापि चचारासौ न्यस्तहस्तः पुरः पुरः॥१०॥ रतस्तम्भसमालम्बि "प्रतिबिम्बमवेक्ष्य सः। कृच्छ्रेण जज्ञे विज्ञोऽपि तत्त्वतः पृथिवीपतिम् ॥११॥ नमस्कृत्य नृपं पुञ्जीभूतहारः स भूतले । वेत्रिविज्ञापितस्थाने तस्थावूद्धदमस्ततः ॥ १२॥ नृपस्तं प्रत्यभाषिष्टाम्भोदगम्भीरया गिरा। अभ्युपेतो मदभ्यर्ण किमुद्दिश्य प्रकाश्यताम् ॥ १३ ॥ जगद्गीतगुणग्रामं पूर्व कर्णातिथीकृतम् । अथो दृग्विषयीकर्तुं साक्षात्त्वामभ्युपागमम् ॥ १४॥ इत्याकये पुनर्लब्धवर्णः प्रण्यगदन्नृपः। कश्मीरे किमिवाश्चयं दृष्ट्या त्वं दृष्टवानसि ॥१५॥ प्रालेयधवलैः शैलैविशालैरुज्ज्वलः कचित् । विश्वप्रसृमरैर्युष्मद्यशो[भिरिव सर्वतः ॥ १६ ॥