________________
२२
श्रीभानुचन्द्रगणिचरित श्रीशेखस्तच्चिकीः शाहेः स्फुरन्मानमलीलिखत् । श्रीगुरोः प्रेषयांचक्रे राजधन्यपुरे पुनः ॥ १८४॥ ... आकलय्य प्रमेयं तत् स्फुरन्मानान्तरस्थितम् । प्रमाणीकृत्य सलेहं श्रीशाहेरनुशासनम् ॥ १८५॥ वासं प्रतिष्ठितं प्रेष्य श्रीहीरगुरवः खयम् । लेखबारा ततस्तेषामुपाध्यायपदं ददुः ॥ १८६ ॥-युग्मम् । यत्कीर्ति नरनिर्जरोरगवधूप्रारब्धनूतस्तुति
श्रुत्वाऽस्यामनुरागितां त्रिभुवने विभ्रत्यदभ्रां हृदा। शर्वाणीरमणस्तद्भवणतो मूर्द्धस्थसिद्धापगां
कुर्वाणां यधिरत्वमुद्धतरवैस्तारं गजैर्गर्हति ॥ १८७॥ इति श्रीतपागच्छे पातिसाहिश्री अकबरप्रतिबोधदायक महोपाध्यायश्री ५ श्रीभानुचन्द्रगणिप्रभावकपुरुषचरिते पण्डितश्रीहानर्षिगणिप्रभृतिपट्टपरम्पराप्रादुर्भावनश्रीशाहिमिलनसूर्यसहस्रनामाध्यापनाष्टोत्तरशतनात्रविधापनप्रतिश्रयागमनोपाध्यायपद
प्रदापनादिवर्णनो नाम द्वितीयः प्रकाशः ।