________________
द्वितीय प्रकाश
ततः स्वश्रेयसः श्रेणीवल्ली विस्तारमीयुषी। शाहेश्च शाहिजातस्य बभूव नवपल्लवा ॥ १६८॥ अन्यदानन्यराजन्यपूर्णायां पर्षदि स्थितम् । गुरवोऽध्यापयांचक्रुः प्रातः पृथ्वीपुरन्दरम् ॥ १६९ ॥ मुहूर्मुहूर्महानन्दपीयूषलहरीमिव । प्रसन्नां श्रीगुरोर्मूर्ति दर्श दर्श जहर्ष सः ॥ १७ ॥ मुखानविलसद्वाणी रणन्नूपुरहारिणीम् । उजगार गिरं कर्णसुधां स वसुधाधवः ॥ १७१॥ युष्माकं संप्रदायेऽस्मिन् समग्रगुणशालिनाम् । सार्वभौममिवास्माकं किमुत्कृष्टतरं पदम् ।। १७२ ॥ अस्त्याचार्यपदं मुख्यमुपाध्यायपदं पुनः। तेषामित्युक्तमाकर्ण्य भूयो भूमानजीगदत् ॥ १७३ ॥ परभागवतां तत्रभवतां भवतां पुनः। प्रोक्तयोरनयोर्मध्ये किमास्ते तन्निगद्यताम् ॥ १७४ ॥ गुर्वायत्ततयाऽस्माकमवस्थानाच दूरतः। अप्येकमनयो वास्माकमद्याप्यजायत ॥ १७ ॥ तन्निशम्यावदद्भूमान् भूयोभूयः कृताग्रहः। तर्हि दत्तं तदस्माभिराचार्यपदमस्तु वः॥ १७६ ॥ तदाचार्यपदं नैवास्माकमौचित्यमश्चति । तज्जुषः सन्ति तद्योग्या यतः श्रीहीरसूरयः ॥ १७७ ॥ इत्यालोक्य नृपस्तेषां निःस्पृहत्वमलौकिकम् । अजोषिष्ट समज्यायामस्तवीच पुनः पुनः॥ १७८ ॥ अन्येद्युः सर्वभूपश्रीहूतिदूतीभवन्मतिः। उपाध्यायपदं तेषां शेखः शाहेरदापयत् ॥ १७९॥ महेन महतोपेत्य खयमेव प्रतिश्रयम् । श्राद्धान् सर्वान् समाहूय तच सर्वमचीकथत् ॥ १८० ॥ तद्वचःश्रवणात्ते च प्रमोदभरमेदुराः। नन्तुजेलदध्वानादिव सर्वेऽपि केकिनः ॥ १८१ ॥ अथौचित्यविदां मुख्यैस्तैरभाषीति धीसखः। पारंपर्यागतास्माकं रीतिरेषैव वर्तते ॥ १८२॥ पदप्रदान प्रभृतिगुर्वायत्तं न चान्यतः। लिखित्वा तन्नृपादिष्टं ज्ञाप्यमस्मद्गुरोरिदम् ॥ १८३ ॥