Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 138
________________ पञ्चमोऽङ्कः । पक्ष्माग्रग्रथितास्रबिंदुविसरापर्यंतपातोन्मुखी प्राप्ता मां मनसाकुलेन न पुनर्भावानुगैश्रेष्टितैः । प्रेमव्रीडिततापसाध्वसतमः सपातकंपोत्तरं दृष्टी दृष्टविनष्टसाचि चलना यांत्याः कथं कथ्यते ॥३३॥ आस्तामेतत् । इदं तु कथं वृत्तम् । निर्वर्त्य वान्मम मंथरे दृशौ विवर्तयंती वलितत्रिकं मुखम् । स्वयं वृणाना यददर्शदन्यस्तदप्यहो लग्नमिहैव मे हृदि ॥ ३४ ॥ कथं चिरायते वयस्यसौधातकिः । ( प्रविश्य ) विदूषकः -- ऐसो म्हि आअदो । १२५ राजा - - वयस्य अपि सुसूत्रं संविधानकम् । विदूषकः -- वेअस्स जस्स एसो सोदाअइ सइवो तस्सवि ते दुक्करं णाम । राजा- - वयस्य कथय कथं गतं संकेतं संगतम् । विदूषकः — अंत्थि दाव णोमाणिआए सह अहं इदो दो । राजा - अस्ति तत् । विदूषकः - दो इमस्स भवणस्स परोहिडमग्गेण पविद्धं पमदवणं । तहिं च पुव्वसंकेदिदा पमदवणपालिआ गंधमालिणी णामा दारं पालअंती ठिदा | १ एषोस्मि आगतः। २. वयस्य यस्यैषः सौधातकिः सचिवः तस्यापि ते दुष्करं नाम अस्ति तावन्नवमालिकया सह अहं इतो गतः । ३. ततश्चास्य भवनस्य पश्चान्मार्गेण प्रविष्टं प्रमदवनम् । ४ तस्मिंश्च पूर्वसंकेतिता प्रमदनपालिका गंधमालिनी नाम द्वारं पालयंती स्थिता ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182