Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 177
________________ १६४ ग्रंथकारस्य प्रशस्तिः । यस्य वाक्सुधया भूमावभिषिक्ता जिनेश्वराः । तच्छिष्यानुक्रमायाते संख्येयो विश्रुतो भुवि ॥ ९ ॥ गोविन्दभट्ट इत्यासीद्विद्वान्मिथ्यात्ववर्जितः । देवागमनसूत्रस्य श्रुत्या सद्दर्शनान्वितः ॥ १० ॥ अनेकांतमतं तत्त्वं बहु मेने विदांवरः । नंदनास्तस्य संजाता वर्द्धिताखिलकोविदाः ॥ ११ ॥ दाक्षिणात्या जयंत्यत्र स्वर्णयक्षीप्रसादतः । श्रीकुमारकविः सत्यवाक्यो देवरवल्लभः ॥ १२ ॥ उद्यभूषणनामा च हस्ति मैल्लाभिधानकः । वर्धमानकविश्चेति षडभूवन् कवीश्वराः ॥ १३ ॥ श्रीमद्विपंगुडीशः कुशलवरचितः स्थानपूज्यो वृषेशः स्याद्वादन्यायचक्रेश्वरगजवशकुद्धस्तिमल्लाह्वयेन । गद्यैः पद्यैः प्रबंधैर्नवरसभरितैराइतोऽयं जिनेशः पायाम्नः पादपीठस्थलविकटलसत्पांड्यमौलिप्रभौघः ॥ १४ ॥ इति प्रशस्तिः । समाप्तमिदं नाटकम् ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182