Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
विक्रांतकौरवे
सुलोचना स्वीक्रियतां च तस्याः
स्वयं वृतेन प्रथमं वरेण ॥ ४७ ॥ तदिदानीम्
वसुधारावार्षिते प्रतीच्छतु करप्रदानजलधारम् । गृह्णातु च करमस्या विगणितपृथ्वीकरादानः ॥४८॥
( राज्ञो हस्ते सलिलधारामावर्ण्य हस्तमस्या अर्पयति) राजा-(गृहीत्वा । स्वगतं )
चिरेण विस्मारितविप्रलंभः संभोगशृंगारविशंखलोऽध । संकल्पकोट्या निबिडीकृतात्मा
संकल्पजन्मा हृदि माद्यतीव ॥ ४९ ॥ महाराजः
मूर्तित्रयोद्भूतिविशेषभूता रत्नत्रयात्मान इमेग्नयो वः । छत्राणि चक्राणि च संतु सिद्धयै ।
सिद्धार्चयापादितसंनिधीनि ॥५०॥ अपि च
यस्य स्वयंभुवो नाभेब्रह्मणो विदुरुद्भवम् विश्वोत्पादलयधौव्यसाक्षी चास्तु शिवाय वः ॥५१ ॥ प्रतीहारः-- आकाशं मूर्त्यभावादघकुलदहनादग्निरुर्वी क्षमातो नैस्संग्याद्वायुरापः प्रगुणशमतया स्वात्मनिष्ठः सुयज्वा।
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182