Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पञ्चमोऽङ्कः ।
१४५
विदूषकः -- ( आत्मगतं ) अहो दुप्पारपसराइ कामु अजणस्स
आआसपरिदेविआइ ।
राजा - अये प्रचुरप्रतिपक्षसंक्षुण्णा प्रवासिनां प्रवृत्तिः । कुतः ।
क्षपानाथः सत्वं क्षपयति करैरुल्मुकखरैवसंत संतापं प्रगुणयति संत शिशिरम् । घनामोदाल्लब्धिश्वसितमथनैव श्वसनतः स्मरः प्रत्याख्यातो विरहिमनसां घस्मर इति ॥ ८१ ॥
विदूषकः- ( विलोक्य) वेअस्स समासण्णो पच्चूसो । ता इदो गच्छेमो ।
राजा - ( विभाव्य ) कथं विभातप्राया विभावरी । तथाहि
चकोरैज्योत्स्नांभः कियदपि निपीतं परिपतत् पुटेष्वं भोजानां कियदपि निरुद्धं निमिषदाम् । वियोगार्तेः कोकैः कियदपि गतं पक्षविधुतं
विशुष्कं संतप्तास्ववतनुषु शिष्टं विरहिणाम् ॥ ८२ ॥ सखे केदानीं नंद्यावर्तः ।
( नेपथ्ये )
तो तो देवः ।
राजा - ( परिक्रमन् विलोक्य )
अयं च किंचित्प्रविसार्य पक्षं क्षपांतवातक्षणलब्धबोधः ।
१ अहो दुष्पारप्रसराणि कामुकजनस्य आकाशपरिदेवितानि । २ वयस्य समासन्नः प्रत्यूत्रः । तस्मादितः गच्छावः
१०
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182