Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 170
________________ .. षष्ठोऽङ्कः। १५७ तदधिगमसकामा योगिनश्चारु तेषां चरितमिति चतुष्कं मंगलं नः कृषीष्ट ॥३७॥ प्रतीहारः-(अग्रतोऽवलोक्य ) महाराज पश्य पश्य । प्रत्ययकोतुकबंधबंधुरनेपथ्यः प्रत्यासीदति परिणयनवेदिकां सोमप्रभसूनुः । य एषः नवमलयजचर्चासंसृजत्सिद्धशेषा विशदशदकशोधी शुभदंभोरुहाक्षः। मदनिभृतगजेंद्रोदारखेलप्रयातो . जनयति जनताया नेत्रकौतूहलानि ॥ ३८ ॥ महाराजः-( विलोक्य निर्वर्ण्य च ) अहो पैतृकमनुसरति कुमारः । तथाहि । आत्मा वै पुत्रनामैत्यनुभवपदवीमनुतेसौ श्रुतिर्नः कौरव्यं भव्यमग्रे यदनुकृतिकृतावर्तनं पश्यतो मे। तारुण्ये वर्तमानो वयसि शमनिधिनिर्विशंकं वयस्यस्साक्षात्सोमप्रभोसाविति मतिरधुना मन्यते धन्यमेनं ॥३९॥ नंद्यावर्तविशारदौ-एष महाराजः यावदुपसमिः ( उपसर्पति)। जयतु महाराजः। राजा-एष कौरव्यो जयः पूज्यपादानभिवादयते । महाराजः-वत्स चिरं जीव । प्रतीहारः-विजयतां कौरवेश्वरः । महाराजः--भो महेंद्रदत्त किमिदमिदानी प्रतीक्ष्यते । प्रतीहारः-महाराज सर्व सज्जं । पश्य

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182