Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१५६
विक्रांतकौरवे
विशारदः - अहो महानुभावता महाराजस्य । क्षत्रांकुरेण कुरुणा हरिणा मघोनाप्येनं पुरा सह निवेषितमभ्यषिंचत् । प्रीतो युगादिपुरुषः स्वकरांबुजाभ्यामावर्जितैः कनककुंभभूतैः पयोभिः ॥ ३५ ॥ नंद्यावर्तः - एष रत्नमंडपस्य पादफलकमार्गः । तदवधार्य दीयतामितः पादो देवेन ।
( राजा उभाभ्यां दत्तहस्तो यथोचितं परिक्रामति )
विशारदः - अहो नु खलु भास्वरकार्तस्वरघनखचितमसृणकुट्टिमस्य समीचीन चीनपट्टसंछन्नजांबूनदस्तंभ सहस्रसंभृतस्य समुल्लसदुल्लोचपल्लवितरुचिरचंद्रोपलकस्य मंदमारुतविधूयमान चंदनमालालंकृतमणितोरणकनककिंकिणीमुखरितमुखस्य मुखविनिहितविकचनालिकेरकुसुमगुच्छभरितशातकुंभशतोपशोभितस्य नातिप्रौढविरूढमंगलधान्यांकुरनिकरमंजरितरत्नपालिकापालिकंदलितस्य सुविभक्तमुक्तागुणपत्र भंगभंगितरंगितपताकिकापंक्तिपरिष्कृतस्य सविशेषदर्शनीयता रत्नमंडपस्य ।
नंद्यावर्त : - (निर्वर्ण्य ) अपि चात्र । हैयंगवीनाहुतिगंधपूतः
कालागुरूणां गुरुरेष धूपः । वासेन नासैकरसायनेन व्यालिंपतीवाद्य निलिंपमार्गम् ॥ ३६ ॥
( तत प्रविशति उपविष्टः सपरिवारो महाराजः प्रतीहारश्च )
राजा
सकलमखिलतत्त्वोद्बोधनं तत्त्वमाद्यं हतनिखिलविकल्पं निष्कलं तत्त्वमंत्यम् ।
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182