Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 167
________________ विक्रांतकौरवे अत्र हि-- अन्योन्यस्य स्थातुकामा पुरस्ताद दृष्टा देवमात्मन्यतृप्ताः। सख्यै सख्यै सादरं दर्शयंत्यः स्वैरं रुंध्य द्वाररंधं पुरंध्यः ॥ २५ ॥ अपि चासाम् । विकस्मरस्मेरकपोलपालीन्यमूनि यूनां नयनामृतानि । विभांति विस्फारितवीक्षितानि । मुखानि मुग्धायतलोचनानि ॥ २७ ॥ नंद्यावर्तः-( विलोक्य ) अहो अतिशयिता दर्शनौत्सुक्यस्य । न भृष्टं कर्णपूरं न चलनपतितं हेमताटंकपत्रं न त्रस्तं केशहस्तं न गलितकलनं रत्नकांचीकलापं । न त्रुट्यंतं च हारं गणयति सुरतव्यत्ययोन्मादितेव स्त्रीसंसत्संपतंती सपदि कुरुपतिं द्रष्टुकुत्कंठमाना ॥२८॥ विशारदः-सखे इतोपि पश्य । मंजीरशिंजितरसानुगतैरियं च संसज्यमानचरणा गृहकेलिहंसैः। देवावलोकनसमुत्सुकचित्तवृत्तिः स्थातुं न पारयति न त्वरयाभियातुम् ॥ २९ ॥ नंद्यावर्तः-(विलोक्य ) कथमायासिता तुलाकोटिभ्यां हंसगामिनी । विशारदः-सखे इतः पश्यापरं प्रेक्षणीयम् । अनया हि

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182