Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१४८
विक्रांतकौरवे
Prammarmonm
प्रांशूच्छ्रायाः षोडशास्मै सहस्रा
ण्याजानेया वाजिनश्चाभिजाताः॥५॥ ततश्च ।
हृदयंगमामनर्धा स रत्नमालामवाप्य चारुगुणाम् । अमनुत भरताच्चतुर्दश
रत्नेशादधिकमात्मानम् ॥ ६ ॥ प्रवृत्तं चेदं जगते हिताय रत्नमालाप्रदानं काशीराजस्य । अत्र हि
दत्वा किमिच्छकमनेन चिरपदानं दौर्गन्यजातमखिलं जगतो निरस्तम् । दौर्गत्यमीदृशमभूत् सुहिते तु लोके
यन्नार्थिनः क्वचिदपि द्रविणेन लब्धाः ॥७॥ इत्थं च निष्कांतारिभूतायां कार्यपदव्यामद्य पुनः काशरािजः सुलोचनां प्रदित्सति कौरवेश्वराय । आज्ञप्तं च युवराजहेमांगदेन, आर्य महेंद्रदत्त अद्य खलु वत्सायाः परिणयनं । तदिदानी प्रवर्त्यतां सिद्धायतनेषु महामहः । प्रगुणीक्रियतां च सकलमन्यत् संविधानकमिति । मया च यथाज्ञप्ति सर्वमनुष्ठितं यावदिदानीं युवराजाय निवेदयामि ।
(ततः प्रविशति हेमांगदः ।) हेमांगदः-अहो कीर्त्यनुरूपं चेष्टितमपि मेघेश्वरस्य । वाढमिहास्ति न सदृशो हास्तिनपतिना पराक्रमी लोके । येनापवाहितोसौ भरतसुतो दर्पगुरुभरतः । मेघेश्वराय सुलोचनाप्रदानादपि श्लाघ्यं चक्रवर्तिसुताय रत्नमालाप्रदानम् ।
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182